तत्र तानि कानीत्यपेक्षायां ब्रह्मपुराणे--
"चतुर्दश्यष्टमी चैव अमावास्या च पूर्णिमा । |
चकारादेकादश्या ग्रहणम् । एतेषु पर्वसु ।
मनुरपि--
"अमावास्यामष्टमीं च पौर्णमासीं चतुर्दशीम् । |
श्रुतिरपि--
"नामावास्यायां च पौर्णमास्यां च स्त्रियमुपे- |
याज्ञवल्क्यः--
"एवं गच्छन्स्त्रियं क्षामां मघां मूलं च वर्जयेत् । |
क्षामा कृशा । एतच्च क्षामत्वं रजस्वलाव्रतेनैव भवति । नो चेदल्पस्निग्धभोजनादिना कार्यं रजःक्षयार्थम् ।
तथाच बृहस्पतिः--
"स्त्रियाः शुक्रेऽधिके स्त्री स्यात्पुमान्पुंसोऽधिके भवेत् । |
मनुः--
"पुमान्पुंसोऽधिके शुक्रे स्त्री भवत्यधिके स्त्रियाः । |
अपुमान्नपुंसकः । पुंस्त्रियौ वा यदि बीजविभागः ।
तदाह यमः--
"यदि संभोगकाले तु पुरुषो रागमोहितः । |
क्षीणे निःसारे, अल्पे च विपर्ययो गर्भाग्रहणम् । मघां मूलं चेति चकारः शास्त्रान्तरोक्तवर्ज्यनक्षत्राणां समुच्चयार्थः । सुस्थे शुभस्थानस्थिते । इन्दौ चन्द्रे सकृदेकस्यां रात्रौ न द्विस्त्रिर्वेत्यर्थः ।
नारदः--
"उपवीती युग्मतिथौ न नग्नः कामयेत्स्त्रियम् । |