पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६९२

पुटमेतत् सुपुष्टितम्
६८४
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( गर्भाधानकालः )
 

 पुत्रार्थी पुरुष एतानि नक्षत्राणि त्यक्त्वा युग्मतिथौ गच्छेदित्यर्थः । अहिराश्लेषाः । पैतृकं मघाः ।

 ग्राह्यतिथय उक्ताः श्रीधरेण--

"षष्ठ्यष्टमीं पञ्चदशीं चतुर्थीं चतुर्दशीमप्युभयत्र हित्वा ।
शेषाः शुभाः स्युस्तिथयो निषेके वाराः शशाङ्कार्यसितेन्दुजानाम्" इति ॥

 उभयत्र पक्षद्वये । निषेको गर्भाधानम् । शशाङ्कश्चन्द्रः । आर्यो गुरुः । सितः शुक्रः । इन्दुजो बुधः ।

 नक्षत्राणि रत्नमालायाम्--

"विष्णुप्रजेशरविमित्रसमीरपौष्णमूलोत्तरावरुणभानि निषेककार्ये ।
पूज्यानि पुष्यवसुशीतकराश्विचित्रादित्याश्च मध्यमफला विफलाः
स्युरन्ये(न्याः)" इति ॥

 विष्णुः श्रवणम् । प्रजेशो रोहिणी । रविर्हस्तः । मित्रोऽनुराधाः । समीरः स्वाती । पौष्णं रेवती । मूलं प्रसिद्धम् । उत्तराशब्देनोत्तरात्रयम् । वरुणभं शततारकानक्षत्रम् । निषेककार्ये गर्भाधानकार्ये, एतानि पूज्यानि । पुष्यः प्रसिद्धः । वसवयाश्रविष्ठाः । शीतकरो मृगशीर्षम् । अश्विनावश्विनीनक्षत्रम् । चित्रा प्रसिद्धा आदित्यं(त्ये) पु[१]नर्वसू । एतानि मध्यमफलानि । अन्या अवशिष्टास्तारा विफला इत्यर्थः । मूलस्य विहितप्रतिषिद्धत्वाद्विकल्प इति केचित् । वस्तुतस्तु मूलस्य पूज्यत्वं चिन्त्यमेव ।

 वृद्धवसिष्ठसंहितायाम्--

"पौष्णद्वये पैतृभयाम्यसार्पविष्णुद्वये नैव च जन्मभेषु ।
उत्पातपापग्रहदूषितेषु न कार्यमाधानमनिष्टलग्ने" इति ॥

 अनिष्टलग्नानि मेषवृश्चिकमकरकुम्भाख्यानि । श्रवणरेवत्योर्विहितप्रतिषिद्धत्वाद्विकल्पः । अत्र जन्मत्रयमपि वर्ज्यम् ।

 तथा च प्रयोगपारिजाते बृहस्पतिः--

"श्राद्धं पित्र्यं चिकित्सां च मैथुनाभ्यञ्जने तथा ।
चौलोपनयनादीनि वर्जयेत्तु त्रिजन्मसु" इति ॥

 त्रिजन्मानि जन्मनक्षत्रं दशमैकोनविंशे च । जन्मनक्षत्रे(त्रं) तत्पूर्वोत्तरे नक्षत्रे इति केचित् ।



  1. ग. ङ. च.