पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६९४

पुटमेतत् सुपुष्टितम्
६८६
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( स्वास्थ्ये ऋतौ गमनस्याऽऽवश्यकता )
 

 एतच्च समानदेशविषयम् ।

"ऋतुस्नातां तु यो भार्यां संनिधौ नोपगच्छति ।
घोरायां भ्रूणहत्यायां युज्यते नात्र संशयः" इति पराशरोक्तेः ॥

 संनिधावित्युक्त्याऽसंनिहितस्य न दोष इत्युक्तं भवति ।

 देवलः--

"यः स्वदारानृतुस्नातान्स्वस्थः सन्नोपगच्छति ।
भ्रूणहत्यामवाप्नोति प्रजा प्राप्ता विनश्यति" इति ॥

 स्वस्थ इति वचनादस्वस्थस्य न दोष इत्युक्तं भवति । सूतकादिषु ऋतावगच्छतो न दोषः ।

तथा च मनुः--

"सूतके बन्धने विप्रो हव्यकव्यादिवर्जितः ।
नैनसा लिप्यते तद्वदृतावगमनादपि" इति ॥ एनसा पापेन ।

 व्यासः--

"व्याधितो बन्धनस्थो वा प्रवासेष्वथ पर्वसु ।
ऋतुकाले तु नारीणां भ्रूणहत्या न युज्यते" इति ॥

 ऋतुकाल इत्यनन्तरमगमन इति शेषः । योऽयमृतौ भार्यागमननियमः सोऽजातपुत्रं प्रत्येव । 'जायमानो वै ब्राह्मणस्त्रिभिर्ऋणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः' इतिश्रुतिमूलकत्वेनास्योपपत्तेः श्रुत्यन्तरकल्पनाया अन्याय्यत्वात् ।

तथा च मनुः--

"ज्येष्ठेन जातमात्रेण पुत्री भवति मानवः ।
पितॄणामनृणश्चैव स तस्मात्सर्वमर्हति" इति ॥

कूर्मपुराणमपि--"ऋतुकालाभिगामी स्याद्यावत्पुत्रोऽभिजायते" इति ॥

 एवं चैकपुत्रोत्पादनेन शास्त्रार्थस्य कृतत्वादानृण्ये च जाते न पुत्रान्तरोत्पादनमावश्यकम्, इति । केचित्तु ऋतोर्निमित्तत्वात्प्रतिनिमित्तं नैमित्तिक्यावृत्तिरुचिता ।

 स्मरन्ति च--

"एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत्" [इति] इत्याहुः ।

 ऋतुकाले भार्याया अपि भर्तारं प्रति गमनं नियतमन्यथा दोषः ।

तथा च संग्रहे--

"ऋतुस्नाता तु या नारी भर्तारं नानुमन्यते ।
सा मृता तु भवेन्नारी सूकरी च पुनः पुनः" इति ॥

 यमोऽपि--

"ऋतुस्नाता तु या नारी भर्तारं नोपगच्छति ।
तां ग्राममध्ये विख्याप्य भ्रूणघ्नीमिति वासयेत्" इति ॥