तर्जन्या चूर्णमादाय ताम्बूलं न तु खादयेत् । |
संभोगकाले स्त्रियमकञ्चुकां कृत्वा भोगं कुर्यात् ।
"सकञ्चुकरतिं कृत्वा सचैलं स्नानमाचरेत्" |
इति रतिप्रकाशे प्रायश्चित्तश्रवणात् । मैथुनकाले तर्जन्यां रौप्यं चेत्तत्परित्याज्यं शिखा च विसर्जनीया ।
"तर्जनीं रौप्यसंयुक्तां ब्रह्मग्रन्थियुतां शिखाम् । |
इति संग्रहे प्रायश्चित्तश्रवणात् ।
संभोगोत्तरकृत्यं धर्मसूत्रे--"उदकोपस्पर्शनम्" इति ।
उदकोपस्पर्शनं स्नानम् । एतच्चर्तुकाल इति व्याख्यातमुज्ज्वलाकृता ।
पराशरोऽपि--"ऋतौ तु गर्भशङ्कित्वात्स्नानं मैथुनिनः स्मृतम्" इति ।
एतच्च स्नानमशिरस्कम् । ऋतुगमननिमित्तकस्नानं प्रकृत्य--
"अशिरस्कमेव मज्जनं कुर्यात्" इति बृहद्वसिष्ठोक्तेः । |
अनृतौ तु धर्मसूत्रे--
"लेपान्प्रक्षाल्य पादौ चाऽऽचम्य प्रोक्षणमङ्गानाम्" इति । |