पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७०

पुटमेतत् सुपुष्टितम्
६६
[पात्रासादनादिषु विशेषः]
भट्टगोपीनाथदीक्षितविरचिता--
(ब्रह्मोपवेशनादि)
 

ष्टार्थम् । वस्तुतस्तु शम्याशब्दो यथाऽऽकृतिग्राहकस्तथा षट्त्रिंशदङ्गुलप्रमाणस्यापि । एवं च नात्र श्रौते[१] उक्ते द्राघीयस्त्वह्वसिष्ठत्वे भवतः । नापि च मध्यमाङ्गुलिरनामिका कनिष्ठिकेति बौधायनोक्तो दक्षिणोत्तरपरिध्योः प्रमाणभेदः । एवं च सर्वेषां षट्त्रिंशदङ्गुलात्मकमेव प्रमाणमिति ज्ञेयम् ।

 इध्म[२]स्य संनहनं शुल्बेनैव कार्यं श्रौते दर्शनाच्छिष्टाचाराच्च ।

 शुल्बकरणं तु श्रौतसूत्रे--

"समूलानाममूलानां वा दर्भाणामयुग्धातु शुल्बं कृत्वा प्रागग्रमुदगग्रं
वा निदधाति" इति ।

 अयुग्धातु विषमधातु । धातुः संधिः । अवयव इति केचित् । अत्रायुग्धात्वित्यविशेषश्रवणादिध्मबन्धनपर्याप्तं विषमधातुकं शुल्बं कार्यम्, न तु बर्हिबन्धनार्थकशुल्बवत्त्रिधातुत्वपञ्चधातुत्वनियमः ।

 ततः पात्रासादनादि । तदुक्तं गृह्ये--

"दर्वी कूर्चमाज्यस्थालीं प्रणीताप्रणयनं येन चार्थः सकृदेव
सर्वाणि यथोपपादं वा" इति ।

 कूर्चः सावित्रीवाचनार्थमासनम् । येन चार्थ इत्यनुक्तानामपि प्रयोजनवतामुपसंग्रहार्थम् । सकृदेव युगपदेव । सर्वाण्युक्तान्यनुक्तानि च प्रयोजनवन्ति पात्राणि द्रव्याणि च प्रयुनक्ति । यथोपपादं यथासंभवं वेत्यर्थः । "यदेकमेक संभरेत्पितृदेवत्यानि स्युः" इति श्रुत्या पित्र्येष्वेकैकस्यैव पात्रस्य संभरणविधानात्पित्र्येषु मासिकश्राद्धाष्टकादिष्वेकमेकं सादनीयम् । "यत्सह सर्वाणि मानुषाणि" इति श्रुत्या मानुषेषु युगपत्पात्रसंभरणविधानादुपनयनादिषु मानुषेषु युगपत्पात्रसादनम् । "द्वे द्वे संभरति" इतिश्रुत्याऽवशिष्टेषु दैवेषु कर्मसु द्वंद्वं पा[३]त्रासादनमिति व्यवस्थैव वा यथोपपादशब्दार्थः । कूर्चस्य तूपनयन एवोपयोगः। उत्तरत्र पात्राण्युत्तानानि कृत्वेतिविधानादासादने न्यग्बिलता गम्यते ।

 ततो ब्रह्मोपवेशनादि । तदुक्तं गृह्ये--

 "एतस्मिन्काले ब्रह्मा यज्ञोपवीतं कृत्वाऽप आचम्यापरेणाग्निं दक्षिणाऽतिक्रम्य ब्रह्मसदनात्तृणं निरस्याप उपस्पृश्याग्निमभिमुख उपविशति" इति ।

 एतस्मिन्काले पात्रासादनान्तरकाले ब्रह्मर्त्विग्यज्ञोपवीतं कृत्वाऽप आच


  1. क.ख. ग. ङ. ते द्रा ।
  2. ग. घ. ङ. ध्मसं ।
  3. ग. घ. ङ. पात्रसा ।