पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७००

पुटमेतत् सुपुष्टितम्
६९२
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( भार्यागमने नियमाः )
 

पराशरोऽपि--"अनृतौ तु यदा गच्छेच्छौचं मूत्रपुरीषवत्" इति ।

 स्त्रीणां तु न स्नानपादप्रक्षालने । तासामशुचित्वाभावात् ।

 तथा च वृद्धशातातपः--

"उमावप्यशुची स्यातां दंपती शयनं गतौ ।
शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान्" इति ।

 गर्भोत्पत्तावाहात्रिः--

"षण्मासान्कामयेन्मर्त्यो गर्भिणीं स्त्रियमेव हि ।
आदन्तजननादूर्ध्वमेवं धर्मो न हीयते" इति ॥

 एवकारः षण्मासानित्यनन्तरमन्वेति । न चैवं 'काममाविजनितोः संभवन्ति' इत्यनया श्रुत्या प्रसवपर्यन्तं गमनस्याभ्यनुज्ञातत्वादनेन विरोध इति वाच्यम् । तत्र प्रसवापरपर्यायविजननशब्देन 'अत ऊर्ध्वं प्रसूतिः स्यात्' इति पारिभाषिकस्यैव विजननस्य ग्रहणान्न विरोधः । आदन्तजननादूर्ध्वं बालके जाते तस्य दन्तजननादूर्ध्वं गच्छेन्न तु ततः पूर्वमित्यर्थः ।

 मात्स्यकश्यपाभ्यां वर्षद्वादशकादूर्ध्वमृतोरप्राप्तावपि गमनमुक्तम्--

"वर्षद्वादशकादूर्ध्वं यदि पुष्पं बहिर्नहि ।
अन्तः पुष्पं भवत्येव पनसोदुम्बरादिवत् ॥
अतस्तत्र प्रकुर्वीत स्त्रीसङ्गं बुद्धिमान्नरः" इति ॥

 वर्षद्वादशकादितिश्रवणादर्थात्पूर्वं गमनं निषिद्धमिति ज्ञेयम् । चतुर्थीकर्मसंबन्धिगमनं तु भवत्येव तस्य वैधत्वात् ।

 आश्वलायनः--

"दीक्षितस्तु महाय[]ज्ञे पित्रोः प्राग्वत्सराद्द्विजः ।
नेयाद्भार्यां प्रयत्नेन ऋतावप्यर्थितो बुधः" इति ॥

 नेयान्न गच्छेत् । अर्थितः प्रार्थितः । भोगार्थं भार्ययेति शेषः ।

"प्राग्रजोदर्शनात्पत्नीं नेयाद्गत्वा पतत्यधः ।
व्यर्थीकारेण शुक्रस्य ब्रह्महत्यामवाप्नुयात्" ॥

 इति दक्षाश्वलायनाभ्यां निषेध उक्तः स बह्वृचादिविषयः । तैत्तिरीयैस्तु रागप्राप्तौ गमनं कार्यमेवेति सुदर्शनः ।

 त्रिरात्रमध्ये रजस्वलागमने प्रायश्चित्तमाह याज्ञवल्क्यः--

"त्रिरात्रान्ते घृतं प्राश्य गत्वोदक्यां विशुध्यति" इति ।



  1. ख. ग. ड. च. यज्ञैः पि ।