पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७०१

पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६९३
संस्काररत्नमाला
( गर्भाधानाकरणे प्रायश्चित्तम् )
 

 त्रिरात्रान्त उपवासत्रयान्त इत्यर्थः ।

"रजस्वलां तु यो गच्छेदुपवासत्रयं चरेत् ।
गवां घृतं समश्नीयात्ततः पापात्स मुच्यते" इति मरीच्युक्तेः ॥

 स रजस्वलागामी । एतच्चाकामतः । कामतस्त्वाह संवर्तः--

"रजस्वलां तु यो गच्छेद्गर्भिणीं पतितां तथा ।
तस्य पापविशुद्ध्यर्थमतिकृच्छ्रं विशोधनम्" इति ॥

 अयं च गर्भिणीगमननिषेधोऽनन्तरोदाहृतात्रिवाक्यानुरोधेन सप्तममासमारभ्यैव प्रवर्तते ।

 गर्भाधानाकरणे प्रायश्चित्तमाहाऽऽश्वलायनः--

"गर्भाधानस्याकरणात्तस्यां जातस्तु दुष्यति ।
अकृत्वा गां द्विजे दत्त्वा कुर्यात्पुंसवनं पतिः" इति ॥

 अकृत्वेत्यनन्तरमपिशब्दोऽध्याहार्यः ।

"प्रायश्चित्ते कृते पश्चादतीतमपि कर्म वै ।
कार्यमित्येक आचार्या नेत्यन्ये तु विपश्चितः" ॥

 इति वचनसंवादात् । गां द्विजाय दत्त्वाऽकृत्वाऽपि गर्भाधानं पतिः पुंसवनं कुर्यादित्युत्तरार्धार्थः । एतच्च प्रायश्चित्तं केवलस्य गर्भाधानस्य मुख्यकालानतिक्रान्तेन केवलेन पुंसवनेन सह क्रियायां, मुख्यकालातिक्रान्तेन पुंसवनेन सह क्रियायां तु पूर्वोक्तं कृच्छ्रात्मकं ज्ञेयम् । अथवोभयत्रापि समुच्चयः ।

 एतच्च गर्भाधानं मासादिशुभाशुभफलानि विचार्य स्वल्पे दोषे पूर्वं शान्तिं कृत्वा शुभे मुहूर्ते कर्तव्यमेव न तु शुभकालिकत्वापेक्षा । प्रभूतदोषे तु प्रथमर्तौ शान्तिमेव कृत्वाऽग्रे शुभकालिक ऋतौ प्राप्ते कार्यम् ।

 तथा च ज्योतिर्वसिष्ठः--

"प्रभूतदोषं यदि दृश्यते तत्पुष्पं ततः शान्तिककर्म कार्यम् ।
विवर्जयेच्चैव तथैकशय्यां यावद्रजोदर्शनमुत्तमेऽह्नि" इति ॥

 ऋतौ प्रभूतदोषत्वं नामानेकदोषवत्त्वं महादोषवत्त्वं वेति द्रष्टव्यम् । महादोषास्तु वैधव्यप्रदत्वकुटिलत्वसंततिनाशकत्वादिरूपाः ।

 ज्यो[]तिष्कश्यपोऽपि--

"तिथिवासरधिष्ण्येषु पुष्पं दुष्टेषु दृश्यते ।
गमनं वर्जयेत्तत्र पुनः शस्तेषु दर्शनात्" इति ॥



  1. ग. ज्योतिष्प्रकाशे कश्य