गोत्रामुकप्रेत विष्णुदैवतायं ते पिण्ड इति दक्षिणामुखः प्राचीनावीती दक्षिणाग्रेषु कुशेषु पराचीनेन पाणिना सव्यं जान्वाच्य विष्णुरूपं प्रेतं ध्यायन्दद्यात् ।
ततो गन्धादिभिरभ्यर्च्य प्रवाहणान्तं कृत्वा नद्यादौ क्षिपेत् । तस्यामेव रात्रौ श्वः करिष्यमाणश्राद्धे क्षणः क्रियतामित्येवं पञ्च त्रीनेकं वेत्येवमयुग्मान्ब्राह्मणाञ्श्राद्धोद्देशेन निमन्त्र्योपोषणं कुर्यात् । श्वोभूते मध्याह्ने विष्णुमभ्यर्च्य प्रेतं विष्णुरूपिणमुद्दिश्यैकोद्दिष्टविधिना पादप्रक्षालनादितृप्तिप्रश्नान्तं कृत्वा ब्राह्मणसमीपे पिण्डपितृयज्ञवदुल्लेखनाद्युदकनिनयनान्तं तूष्णीं कृत्वा विष्णवे ब्रह्मणे शिवाय सपरिवाराय यमाय च नाममन्त्रैश्चतुरः पिण्डान्दत्त्वा विष्णो अयं ते पिण्ड इति विष्णुरूपं प्रेतं ध्यायन्पञ्चमं पिण्डं दत्त्वाऽर्चनादिप्रवाहणान्तं तूष्णीं कृत्वाऽऽचान्तान्ब्राह्मणान्दक्षिणया संतोष्य तेष्वेकस्मै गुणवते प्रेतबुद्ध्या वस्त्राभरणगोहिरण्यादि दत्त्वा, एकपक्षे तस्मा एव दत्त्वा, भवन्तः प्रेताय तिलोदकाञ्जलिदानं कुर्वन्त्विति वदेत् । ते च पवित्रपाणयः सकुशतुलसीपत्रतोयाञ्जलिं प्रेताय काश्यपगोत्रायामुकशर्मणे विष्णुरूपिणेऽयं तिलतोयाञ्जलिरिति दद्युः ।
ततो ब्राह्मणान्वाचयेत्, अनेन नारायणबलिकर्मणा भगवान्विष्णुरिमं प्रेतं शुद्धमपापमर्हं करोत्विति । ततो विप्रास्तथाऽस्त्विति प्रत्यूचुः (प्रतिब्रूयुः)। ततः कर्ता स्नात्वा भुञ्जीतेति । इति नारायणबलिप्रयोगः ।
अथ नागबलिः ।
तत्र शौनकः--
"अथ वक्ष्यामि सर्वस्य संस्कारविधिमुत्तमम् । |