पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७१२

पुटमेतत् सुपुष्टितम्
७०४
भट्टगोपीनाथदीक्षितविरचिता-- [नागबलिप्रयोगः]
( दशदानमन्त्राः )
 

द्रव्यदानस्य प्रत्याम्नायत्वपक्षे कृच्छ्रसंख्याकगोनिष्क्रयद्रव्यमग्रे निधाय तत्संपूज्य विप्रान्संपूज्य पर्षदुपदिष्टचतुर्दशकृच्छ्रसंख्याकगोनिष्क्रयद्रव्यं नानानामगोत्रेभ्यो ब्राह्मणेभ्यो युष्मभ्यं संप्रददे दातुमहमुत्सृज्य इति वा दद्यात् ।

 ततः पूर्ववद्व्याहृतिहोमविष्णुपूजनविष्णुश्राद्धगोदानानि कुर्यात् । नात्र पञ्चगव्यहोमः ।

 ततो गवे ग्रासं दत्त्वा शक्तौ सत्यां गोभूतिलहिरण्याज्यवस्त्रधान्यगुडरौप्यलवणात्मकानि दश दानानि सदक्षिणानि पूजनपूर्वकं विप्रेभ्यो दत्त्वा मया यत्कृतं प्रायश्चित्तं तदच्छिद्रमस्त्विति भवन्तो ब्रुवन्त्विति विप्रान्प्रार्थयेत् ।

 ततस्तैरच्छिद्रमस्त्विति प्रयुक्ते कर्मसाद्गुण्याय विष्णुं संस्मरेत्[१]

 इह जन्मनि चेत्साक्षाद्वधे(धो) विप्राय लोहदण्डं दद्यात् । तस्य प्रयोगः । देशकालौ संकीर्त्य ममैतज्जन्मकृतसर्पबधजनितदोषपरिहारार्थमिमं लोहदण्डं निष्क्रयद्रव्यं वाऽमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे न ममेति विप्रहस्ते जलसहितं दत्त्वा कृतस्य लोहदण्डदानस्य संपूर्णतासिद्धय इमां दक्षिणां संप्रदद इति दक्षिणां दत्त्वाऽनेन लोहदण्डदानेनानन्तः प्रीयतां न ममेति वदेत् ।

अथ दशदानमन्त्राः ।

"गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।
यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च" इति गोः ॥
"सर्वसस्याश्रया भूमिर्वराहेण समुद्धृता ।
अनन्तसस्यफलदा मम शान्तिं प्रयच्छतु" इति भूमेः ॥
"तिलाः पापहरा नित्यं विष्णुदेहसमुद्भवाः ।
तिलदानेन सर्वं मे पापं नाशय केशव" इति तिलानाम् ॥
"हिरण्यगर्भगर्भस्थं हेम बीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छतु" इति हिरण्यस्य ॥
"कामधेनोः समुद्भूतं देवानामुत्तमं हविः ।
आयुर्विवर्धनकरमाज्यं पातु सदैव माम्" इत्याज्यस्य ॥
"शरण्यं सर्वलोकानां लज्जाया रक्षणं परम् ।
सुवेषधारि वस्त्र त्वं सदा शान्तिं प्रयच्छ मे" इति वस्त्रस्य ॥



  1. ड. च. त् । अस्मिञ्जन्म ।