भूर्भुवः[१] सुवः सर्प इदमासनमास्यतामित्यादि, सर्वत्र दर्भद्वयरूपमेवाऽऽसनं दत्त्वा दर्भद्वयान्तर्हितेष्वष्टसु पात्रेष्वप आसिच्य गायत्र्या युगपदभिमन्त्र्य तूष्णीं यवान्गन्धं पुष्पं च प्रक्षिप्य स्वाहाऽर्घ्या इति निवेद्य सर्पेदं तेऽर्घ्यमित्यर्योदकं देवतीर्थेन दद्यात् । एवमनन्तेदं तेऽर्घ्यमित्यादि । सर्पैष ते गन्धोऽनन्तैष ते गन्ध इत्यादि । सर्पेमानि पुष्पाणीत्यादि । सर्पैष धूप इत्यादि । सर्पैष दीप इत्यादि । सर्पेदं वस्त्रमित्यादि ।
ततः पात्रेष्वन्नादि परिविष्य परिवेष्य वा गायत्र्या प्रोक्ष्य कुशयवजलं गृहीत्वा सर्पायेदमन्नं परिविष्टं परिवेक्ष्यमाणं चाऽऽतृप्तेर्दास्यमानं स्वाहा सं[२]पद्यतां न मम । एवमनन्तादिभ्यः । ब्रह्मार्पणं० येषामन्नमुदिष्टं तेषामक्षय्या तृप्तिरस्तु । अनेन ब्राह्मणभोजनेन सर्पादयः प्रीयन्तां न मम । इति सकुशयवजलमुत्सृजेत् । ततो ब्राह्मणा भुञ्जीरन् । नात्र बलिदाननिषेधः ।
ततः कर्ताऽऽचान्तेषु विप्रेषु प्रागग्रान्दर्भान्संस्तीर्य तेषु दुग्धमिश्रौदनेन सर्पायेमं बलिं समर्पयामि, अनन्तायेमं बलिमित्यादि । ततो बलीन्गन्धपुष्पवस्त्रादिभिः पूजयेत् ।
ततो ब्राह्मणेभ्यस्ताम्बूलसुवर्णादिदक्षिणादानम् ।
ततस्तान्क्षमाप्य(पयित्वा) प्रणम्यानुव्रज्याप्रतीक्ष[३]मेत्य सुवर्णनागदानं कुर्यात् ।
"इति सर्पस्य संस्कारं कृत्वा नागबलिं ततः । |
आचार्यं संपूज्य स्वर्णनागमावाहनादिषोडशोपचारैः संपूज्य प्रार्थयेत् ।
तत्र मन्त्राः--
"ब्रह्मलोके च ये सर्पाः शेषनागपुरोगमाः । नमोऽस्तु तेभ्यः |