पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७१८

पुटमेतत् सुपुष्टितम्
७१०
भट्टगोपीनाथदीक्षितविरचिता-- [नागबलिप्रयोगः]

नमोऽस्तु तेभ्यः सु० ॥ ८ ॥ ये सर्पाः पर्वताग्रेषु दरीसंधिषु
संस्थिताः । नमोऽस्तु तेभ्यः सु० ॥ ९ ॥ ग्रामे वा यदि वाऽरण्ये
ये सर्पाः प्रचरन्ति हि । नमोऽस्तु तेभ्यः सु० ॥ १० ॥ पृथिव्यां चैव
ये सर्पा ये सर्पा बलिसंस्थिताः । नमोऽस्तु तेभ्यः सु० ॥ ११ ॥ रसा-
तले च ये सर्पा अनन्ताद्या महाविषाः । नमोऽस्तु तेभ्यः सु० ॥ १२ ॥
एवं स्तुत्वा तु नागेन्द्रमाचार्याय निवेदयेत्" । [ इति । ]

 देशकालौ संकीर्त्य कृतस्य सर्पसंस्कारकर्मणः साङ्गतासिद्ध्यर्थमिमं सुवर्णमयं नागं सकलशं सवस्त्रं सदक्षिणं तुभ्यमहं संप्रददे न मम, इति दत्त्वाऽनेन सुवर्णनागदानेनानन्तादयो नागाः प्रीयन्तामिति वदेत् ।

 तत आचार्याय गोदानं देयम् । गामाचार्य च संपूज्येमां सवत्सां कृष्णां गां सुवर्णशृङ्गीं रौप्यखुरीं ताम्रपृष्ठीं(ष्ठां) कांस्यदोहां सवस्त्रां सदक्षिणां वृषभयुतां तुभ्यमहं संप्रदद इत्याचार्याय दद्यात् । अनेनानन्तादयः प्रीयन्तामिति वदेत् । गोरभावे मूल्यं देयम् । तत आचार्यः शुद्धोदकेन सकुटुम्बं यजमानमभिषिञ्चेत् ।

 ततः कर्ता मया यत्कृतं कर्म तत्सर्वमच्छिद्रमस्त्विति भवन्तो ब्रुवन्त्विति प्रार्थ्याच्छिद्रमस्त्विति तैः प्रत्युक्ते कृतस्य कर्मणः साङ्गतासिद्धये ब्राह्मणभोजनं भूयसीदानं च विधाय, यस्य स्मृत्या० । प्रमादात्कु० इति विष्णुं संस्मृत्य, अनेन सर्पसंस्काराख्येन(ण) कर्मणा सर्पाधिनाथोऽनन्तः प्रीयतामिति वदेत् ।

 ततः सुहृद्युतो भोजनं कुर्यात्[१]

 जीवत्पितृकस्य नारायणबलिनागबली न भवतः ।

इति नागबलिप्रयोगः ।

 एवमपि फलासिद्धौ महार्णवोक्तो विधिः कार्यः ।

 स च वायुपुराणे--

"चतुर्विधा च या वन्ध्या भवेद्वत्सवियोजनात् ।
अनपत्या भवेद्वन्ध्या मृतवत्साऽपरा स्मृता ॥
स्रवद्गर्भा तथैवान्या काकवन्ध्याऽपरा भवेत् ।
वक्ष्ये तस्याः प्रतीकारं तत्स्वरूपं निबोधय ॥
हिरण्येन यथाशक्ति सवत्सां कारयेद्दृढाम् ।
धेनुं पलेन वत्सं च पादेन गुरुरब्रवीत् ॥



  1. क. ख. त् । इ ।