पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७२२

पुटमेतत् सुपुष्टितम्
७१४
भट्टगोपीनाथदीक्षितविरचिता-- [पार्थिवलिङ्गपूजनविधिः]

क्ततिलाहुत्या यक्ष्य इत्यादि वा । पात्रासादन आज्येन सह तिलानामप्यासादनम् । आज्यपर्यग्निकरणकाले घृताक्ततिलानामपि पर्यग्निकरणम् ।

 तत आज्योद्वासनादि व्याहृतिहोमान्तं प्रसाधनीदेवीहोमान्तं वाऽन्वाधानोत्कीर्तनानुसारेण कृत्वा प्रधानहोमं कुर्यात् । नारायणायेत्यस्या विष्णुगायत्र्या याज्ञिक्यो देवता उपनिषदो विष्णुरनुष्टुप्, होमे विनियोगः, इत्यृष्यादि स्मृत्वोक्तसंख्यया घृताक्तैस्तिलैर्होमः कार्यः ।

 ततोऽन्वाधानोत्कीर्तनानुसारेणाङ्गहोमादि स्विष्टकृदादि वा सर्वं होमशेषं समापयेत् ।

 तत एकं मिथुनं श्रावयितारं च भोजयित्वा न्यूनं संपूर्णमस्त्विति श्रावयितारं वदेत् । तथाऽस्त्विति श्रावयिता । ततो दंपती रक्षाबन्धनं विस्रस्य दुग्धाक्तं कृत्वा शुद्धोदके निक्षिपेताम् । श्रावयिताऽपि रक्षाबन्धनं विस्रस्य दुग्धाक्तं कृत्वा शुद्धोदके निक्षिपेत् ।

 ततः श्रावयितृसुहृद्युतौ दंपती भुञ्जीयाताम् । ततः सर्वे यथार्थं गच्छेयुः ।

इति हरिवंशश्रवणविधिः ।

अथ संक्षेपेण पार्थिवलिङ्गपूजनविधिः ।

 तत्र तिथितत्त्वे भविष्यपुराणे--

"मृद्भस्मगोशकृत्पिण्डताम्रकांस्यमयं तथा ।
कृत्वा लिङ्गं सकृत्पूज्य वसेत्कल्पायुतं दिवि" इति ॥

 नन्दिपुराणे--

" आयुष्मान्बलवाञ्श्रीमान्पुत्रवान्धनवान्सुखी ।
वरमिष्टं लभेल्लिङ्गं पार्थिवं यः समर्चयेत् ॥
तस्मात्तु पार्थिवं ज्ञेयं लिङ्गं सर्वार्थसाधकम्" इति ।

 शिवधर्मे--

"वालुकानि च लिङ्गानि कारयेत्पार्थिवानि च ।
सहस्रपूजनात्सोऽपि लभते वाञ्छितं फलम्" इति ॥

 तत्रैव कालकौमुद्याम्--

"अक्षादल्पप्रमाणं तु न लिङ्गं कुत्रचिन्नरः ।
कुर्वीताङ्गुष्ठतो ह्रस्वं न कदाचित्समाचरेत्" इति ॥

 अक्षोऽशीतिरक्तिकाः । "ते षोडशाक्षः" इत्यमरात् । अङ्गुष्ठशब्देनाङ्गुष्ठबृहत्पर्वग्रन्थिरुच्यते ।