पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७२३

पुटमेतत् सुपुष्टितम्
[पार्थिवलिङ्गपूजाविधिः]
७१५
संस्काररत्नमाला

"अङ्गुष्ठाङ्गुलिमानं तु यत्र यत्रोपदिश्यते ।
तत्र तत्र बृहत्पर्वग्रन्थिभिर्मिनुयात्सदा" इति च्छन्दोगपरिशिष्टात् ।

 अङ्गुष्ठमानमङ्गुलिमानं चेत्यर्थः ।

 तत्रैव गौतमः--

"रात्रावुदङ्मुखः कुर्याद्देवकार्यं सदैव हि ।
शिवार्चनं सदाऽप्यवं शुचिः कुर्यादुदङ्मुखः" इति ॥

 सदा दिवा रात्रौ चेत्यर्थः ।

 तत्रैव लैङ्गे--

"विना भस्मत्रिपुण्ड्रेण विना रुद्राक्षमालया ।
पूजितोऽपि महादेवो न स्यात्तस्य फलप्रदः ॥
तस्मान्मृदाऽपि कर्तव्यं ललाटे वै त्रिपुण्ड्रकम्" इति[१]

 ॐ हूं नम इति रुद्राक्षान्प्रत्येकमभिमन्त्र्य मालां धारयेदित्यप्युक्तं तत्रैव ।

 तत्राधिकारार्थं तत्रैव पञ्चाक्षरमन्त्र उक्तः--

"अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
महापातकयुक्तो वा मन्त्रस्यास्य जपे सदा ॥
अधिकारी भवेत्सर्व इति देवोऽब्रवीच्छिवः" इति ।

 मृद्ग्रहणविधिः शिवपुराणे--

 ("[२]शुचिदेशसमुद्भूतां मृदमाहारयेत्ततः ।

[३]श्रीअष्टमूर्तये नमः--

इत्येतेन च मन्त्रेण मृदमादाय यत्नतः ।
संशोध्य मृत्तिकां तत्र स्थापयेद्विधिवत्पुमान् ।
अथवा कृष्णपक्षस्य चतुर्दश्यां समानयेत् ॥
पुनश्च मासमात्रेण ह्याहरेत्तावदेव हि" इति ।)

 पूजाविधिर्देवीपुराणे--

"मृदाहरणसंघट्टप्रतिष्ठाह्वानमेव च ।
स्नपनं पूजनं चैव विसर्जनमतः परम् ॥
हरो महेश्वरश्चैव शूलपाणिः पिनाकधृक् ।
पशुपतिः शिवश्चैव महादेव इति क्रमात्" इति ॥

 नामक्रमेणानन्तरोक्तानि कर्माणि कार्याणित्यर्थः ।



  1. ङ. च. ति । हूं ।
  2. धनुश्चिह्नान्तर्गतो ग्रन्थो ड. च. पुस्तकयोः ।
  3. संधियुक्तः । आर्षो वाऽसंधिः ।