पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७२४

पुटमेतत् सुपुष्टितम्
७१६
भट्टगोपीनाथदीक्षितविरचिता-- [पार्थिवलिङ्गपूजाप्रकारः]

 यद्यप्यत्र नामान्येव विनियुक्तानि तथाऽपि--

"ध्यात्वा प्रणवपूर्वं तु ततस्तस्मात्समाहितः ।
नमस्कारेण पुष्पादि विन्यसेच्च पृथक्पृथक्" ॥

 इति सामान्यवाक्यान्नमोन्तता ज्ञेया ।

नन्दिपुराणे--

" गोभूहिरण्यवस्त्रादिबलिपुष्पनिवेदने ।
ज्ञेयो नमः शिवायेति मन्त्रः सर्वार्थसाधकः ॥
सर्वमन्त्राधिकश्चायमोंकाराद्यः षडक्षरः" इति ।

 वस्त्रादीत्यादिपदेनेतरोपचारग्रहणम् ।

 विसर्जनात्पूर्वं वामावर्तेनाष्टमूर्तिपूजोक्ता भविष्ये--

"पूज्या अष्टौ हरस्यैताः पूर्वादिक्रमयोगतः ।
आग्नेय्यन्ताः प्रपूज्यास्तु वेद्यां लिङ्गे शिवं यजेत्" इति ॥

 एता वेद्यां, लिङ्गे शिवं यजेदित्यर्थः ।

अत्र प्रसिद्धैव प्राची । "न प्राचीमग्रतः शंभोः" इति रुद्रयामले निषेधात् ।

 ([]ततो जपं कुर्यात् । स चोक्तः शिवपुराणे--

"यथाशक्ति जपं कृत्वा तर्पणं तद्दशांशकम् ।
मार्जनं च दशांशं च कुर्याच्छिवहितेच्छया" इति ॥

 तर्पणमार्जनयोरसंभवे चतुर्गुणो द्विगुणो वा जप इति सामान्यतः ) ।

  लैङ्गे--

"लिङ्गद्वयं प्रतिदिनं मल्लिकाभिः प्रपूजयेत् ।
अर्पयेद्गुडनैवेद्यमेवं संवत्सरं सुधीः ॥
लिङ्गस्य पूजनं कुर्यात्पुत्र उत्पद्यते शुभः" इति ॥

अथैतत्पूजाप्रकारः ।

 देशकालौ संकीर्त्य श्रीसाम्बसदाशिवप्रीत्यर्थं पार्थिवलिङ्गद्वयपूजनमहं करिष्य इति संकल्प्य पूजासामग्रीं स्वसमीपे निधाय विभूतिरुद्राक्षधारणं कृत्वाऽऽसनविध्यादि विधाय, नमः शिवायेति पञ्चाक्षरेण, ॐ नमः शिवायेति षडक्षरेण वा करषडङ्गन्या[]सान्कृत्वा,

"सर्वाधारे धरे देवि त्वद्रूपां मृत्तिकामिमाम् ।
लिङ्गार्थं वै प्रगृह्णामि शोभना भव सर्वदा" ॥



  1. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. च. पुस्तकयोः
  2. क. न्यासौ कृत्वा