पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७२५

पुटमेतत् सुपुष्टितम्
[पार्थिवलिङ्गपूजाप्रकारः]
७१७
संस्काररत्नमाला

 इति भूमिं प्रार्थ्य, ([१]ॐ हराय नम इति शोधितां शुद्धदेशस्थां मृदं ततो गृहीत्वा) जलं निक्षिप्य, ॐ महेश्वराय नम इति घट्टयित्वा मूलेन लिङ्गं कृत्वा झटिति तन्मस्तकेऽक्षतान्निधाय, ॐ शूलपाणये नम इति प्रतिष्ठाप्य प्राणप्रतिष्ठां विधाय ध्यायेन्नित्यं महे[२]शमिति शारदोक्तरीत्या शिवं ध्यात्वा, ॐ पिनाकधृषे नमः श्रीसाम्बसदाशिवेहाऽऽगच्छेह संनिहितो भवेत्यावाहयेत् । सर्वत्र मूलमन्त्रसमुच्चयः । मूलमन्त्रेणैवाऽऽसनं पाद्यमर्घ्यमाचमनीयं च दत्त्वा, ॐ पशुपतये नम इति स्नापनीयं दत्त्वा शिवाय नम इति वस्त्रादिगन्धान्तानुपचारान्दत्त्वा मल्लिकापुष्पाणि दत्त्वा बिल्वपत्राणि समर्प्य धूपदीपौ दत्त्वा नानोपहारादीन्गुडं च निवेद्य फलताम्बूलदक्षिणा दत्त्वा नीराज्य पुष्पाञ्जलिं दद्यात् । शर्वाय क्षितिमूर्तये नमः । भवाय जलमूर्तये नमः । रुद्राय तेजोमूर्तये नमः । उग्राय वायुमूर्तये नमः । भीमायाऽऽकाशमूर्तये नमः । पशुपतये यजमानमूर्तये नमः । महादेवाय सोममूर्तये नमः । ईशानाय सूर्यमूर्तये नमः । इत्यष्टभिर्लिङ्गवेद्यां प्रसिद्धप्रागादिदिक्ष्वप्रदक्षिणमष्टमूर्तीः पूजयित्वा यथाशक्ति मूलमन्त्रं जप्त्वा(जपित्वा) ([३]तद्दशांशतर्पणं मार्जनं च कुर्यात् । असंभवे तत्स्थाने चतुर्गुणो द्विगुणो वा जपः केवलं जपमात्रमेव वा ।)

 ततः पूर्ववत्करषडङ्गन्यासान्कृत्वा ध्यायेन्नित्यमिति[४] पूर्ववद्ध्यात्वा,

"गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु देवेश त्वत्प्रसादान्मयि स्थिरा" ॥

 इति जपं निवेद्य स्तोत्रैः स्तुत्वा,

( "[५]तावकस्त्वद्गतप्राणस्त्वच्चित्तोऽहं सदा मृड ।
कृपानिधे इति ज्ञात्वा भूतनाथ प्रसीद मे ॥
अज्ञानाद्यदि वा ज्ञानाज्जपपूजादिकं मया ।
कृतं तदस्तु सफलं कृपया तव शंकर ॥



  1. धनुश्चिह्नान्तर्गतग्रन्थस्थाने क. ग. पुस्तकयोरन्यथा पाठः स यथा--"ॐ शिवायाङ्गुष्ठाभ्यां नमः । ॐ भवाय तर्जनीभ्यां । ॐ शर्वाय मध्यमाभ्यां ।ॐ पशुपतयेऽनामिकाभ्यां । महादेवाय कनिष्ठिकाभ्यां । ॐ ईशानाय करतलकरपृष्ठाभ्यां । एव हृदयादिषु । एवं न्यासौ कुर्यात् । ततः श्रीअष्टमूर्तये नम इति सुष्ठु शोभिता शुद्धदेशस्थां मृदं गृहीत्वा, ॐ हराय नम इति तामाहृत्य" इति ।
  2. क. ग. हेशं । कर्पूरगौर । कैलासपीठासनमध्यसंस्थं भक्तैर्नन्द्यादिभिः सेव्यमानं भक्तार्तिदावानलमप्रमेयं देव ध्यायामीति शिव ।
  3. धनुश्चिह्नान्तर्गत ड. च. पुस्तकयोर्नास्ति ।
  4. ङ. च. ति ध्यात्वा ।
  5. धनुश्चिह्नान्तर्गतं ख. ड. च. पुस्तकेषु नास्ति ।