पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७२८

पुटमेतत् सुपुष्टितम्
७२०
भट्टगोपीनाथदीक्षितविरचिता-- [संतानगोपालमन्त्रविधिः]

[१]अथ संतानगोपालमन्त्रविधिः ।

 तत्राऽऽदौ संक्षेपेण गुरुलक्षणं नारदपञ्चरात्रे--

"ब्राह्मणः सर्वकालज्ञः कुर्यात्सर्वेष्वनुग्रहम् ।
तदभावाद्द्विजश्रेष्ठः शान्तात्मा भगवन्मयः ॥
भावितात्मा च सर्वज्ञः शास्त्रज्ञः सत्क्रियापरः ।
सिद्धित्रयसमायुक्त आचार्यत्वेऽभिषेचितः" इति ॥

 तत्त्वसारे रुद्रयामले--

("[२] न पत्नीं दीक्षयेद्भर्ता न पिता दीक्षयेत्सु[३]ताम् ।
न पुत्रं च तथा भ्राता भ्रातरं नैव दीक्षयेत्" इति ॥

 अन्यच्च तत्रान्तरे--)

"बह्वाशी दीर्घसूत्री च विषयादिषु लोलुपः ।
हेतुवादरतो दुष्टो वाग्वादी गुणनिन्दकः ॥
अरोमा बहुरोमा च निन्दिताश्रमसेवकः ।

कालदन्तोऽसितोष्ठश्च दुर्ग[४]न्धिश्वासवाहकः ॥
दुष्टलक्षणसंपन्नो यद्यपि स्वयमीश्वरः ।
बहुप्रतिग्रहासक्त आचार्यः श्रीक्षयावहः" इति ॥

तन्त्रराजे--

" ([५]सुन्दरः सुमुखः स्वच्छः सुलभो बहुतन्त्रवित् ।
असंशयः संशयच्छिन्निरपेक्षो गुरुर्मतः ॥
सौन्दर्यमनवद्यत्वं रूपे सुमुखता पुनः ।
स्मेरपूर्वाभिभाषित्वं स्वच्छताऽजिह्मवृत्तिता ॥
सौलभ्यमप्यगर्वत्वं संतोषो बहुतन्त्रता ।
असंशयस्तत्त्वबोधस्तच्छित्तत्प्रतिपादनात् ॥
नैरपेक्ष्यमविच्छेत्ता गुरुत्वं हितवेदिता ।
एवंविधो गुरुर्ज्ञेयस्त्वितरः शिष्यदुःखदः" इति ॥

 अजिह्मवृत्तितेति च्छेदः । बहुतन्त्रता बहुतन्त्र[६]वित्तेत्यर्थः ।

 तथा--

"चतुर्भिराद्यैः सहितः श्रद्धावान्सुस्थिराशयः ।
अलुब्धः स्थिरगात्रश्च प्रेक्ष्यकारी जितेन्द्रियः ॥



  1. एतदारभ्याथ प्रयोग इत्येतस्मात्प्राग्विद्यमानो ग्रन्थो नास्ति च. पुस्तके ।
  2. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
  3. ग. त्सुतम् ।
  4. क. र्गन्धश्वा ।
  5. धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति ।
  6. क. न्त्रवत्ते । ग. न्त्रवेत्ते ।