पापयुक्ताः सौम्याश्च । शुभाः शुभग्रहाः, अक्षीणेन्दुपापयोगरहितबुधगुरुभृगवः । केन्द्राणि प्रथमचतुर्थसप्तमदशमस्थानानि । त्रिकोणे नवमपञ्चमस्थाने । सर्वे पापाः शुभाश्च ग्रहा उक्तस्थानगता दीक्षायां शुभा एव । अत एव रन्ध्रेऽष्टमस्थाने स्थिता यदि सर्वे नाशका इति योजना ।
अथोक्तकालमन्तरेणापि दीक्षार्हः कालस्तन्त्रान्तरे--
"विषुवेऽप्ययनद्वंद्वे संक्रान्त्यां दमनोत्सवे । |
विषुवे तुलामेषसंक्रमयोः । अयनद्वंद्वे कर्कमकरसंक्रान्त्योः । संक्रान्त्यां तदन्यसंक्रान्तिषु । दमनोत्सवे चैत्रपौर्णिमादिषु दमनकरणकपूजादिने । पवित्रे श्रावणपूर्णिमायाम् । गुरुपर्वणि गुरोर्जन्मव्याप्तिदिनयोः ।
अन्यत्रापि--
"सत्तीर्थार्कविधुग्रासे पुण्यारण्यवनेषु च । |
प्रकारान्तरं च--
"सर्वे वारा ग्रहाः सर्वे नक्षत्राणि च राशयः । |
द्वयं भोगमोक्षौ । एवकारोऽप्यर्थः ।
अधिकारिभेदेन कालो यथा--
"मुमुक्षूणां सदा कालः स्त्रीणां कालस्तु सर्वदा" इति ॥ |
अथर्णधनचक्रम्--
"नामाद्यक्षरमारभ्य यावन्मन्त्रादिमाक्षरम् । |