पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७३८

पुटमेतत् सुपुष्टितम्
७३०
भट्टगोपीनाथदीक्षितविरचिता-- [स्वप्नलब्धे मन्त्रे कर्तव्यताविशेषः]
( पुरश्चरणशब्दार्थः )
 

कलशे गुरोः प्राणं निवेशितं भावयेत् । गुरुभावनां कलशे कुर्यादिति यावत् ।

वटपत्रे कुङ्कुमेन लिखित्वा ग्रहणं शुभम् ।
ततः शुद्धिमवाप्नोति अन्यथा विफलं भवेत्" इति ॥

 इदं तु सद्गुरोरभावे । तत्संभवे तु तत एव गृह्णीयादिति । प्रासादे प्रासादबीजाढ्ये । पाश(शो)बीजम् । व्योमव्यापिनि हकारादौ । मायायां हृल्लेखायाम् । अङ्के नवाक्षरे । दन्तार्णे द्वात्रिंशदक्षरे । हरिद्रोच्छिष्टयोस्तद्गणपत्योः । अणु(मनु)र्मन्त्र इति ।

 [१]केषांचिन्मन्त्राणां शापाभाव उक्तो वातुलागमे--

"पुरा शापविहीनं च वर्तते मन्त्रपञ्चकम् ।
श्रीविद्यासालुवं मन्त्रं नृसिंहार्कवराहकम्" इति ॥

तत्रान्तरे तु--

"मन्त्रादिषु सर्वेषु हृल्लेखाकामबीजकम् ।
श्रीबीजं वा विनिक्षिप्य जपेन्मन्त्रस्य सिद्धये ॥
तारसंपुटितो वाऽपि दुष्टमन्त्रोऽपि सिध्यति" इति ।

 हिरण्यगर्भसंहितायां च--

"स्वनामादिवर्णैः स्वमित्राक्षरैर्वा मनुं संपुटीकृत्य येऽनुस्मरन्ति" इति ।

 स मन्त्रस्तेषां सिध्यतीति शेषः । अनुस्मरणं जपः ।

 मन्त्राणां संस्कारादिकं तु शारदातिलकसौभाग्यरत्नाकरादिग्रन्थेषु द्रष्टव्यव्यम् ।)

 आदौ मन्त्रसिद्धये पुरश्चरणमवश्यं कर्तव्यम् । तथा च वैशम्पायनः--

"पुरश्चरणसंपन्नो मन्त्रो हि फलदायकः ।
किं होमैः किं जपैश्चैव किं मन्त्रन्यासविस्तरैः ॥
रहस्यानां हि मन्त्राणां यदि न स्यात्पुरस्क्रिया ।
पुरस्क्रिया हि मन्त्राणां प्रधानं बीजमुच्यते ॥
वीर्यहीनो यथा देवि सर्वकर्मसु न क्षमः ।
पुरश्चरणहीनस्तु तथा मन्त्रः प्रकीर्तितः" इति ॥

 पुरश्चरणशब्दनिरुक्तिर्वायवीयसंहितायाम्--

"साधनं मूलमन्त्रस्य पुरश्चरणमुच्यते ।
पुरतश्चरणीयत्वाद्विनियोगाख्यकर्मणाम् ॥
पुरतो विनियोगस्य चरणाद्वा तथोदितम्" इति ।



  1. अत्र पूर्वापरसंगत्यभावात्किंचित्रुटितमिति भाति ।