पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७४३

पुटमेतत् सुपुष्टितम्
[प्रकारान्तरेण कूर्मचक्रम्]
७३५
संस्काररत्नमाला
( अरिमित्रविचारः )
 

  तत्र--

"उदङ्मुखः सकामस्तु निष्कामः प्राङ्मुखो जपेत् ।
अभिचारादिकं यामे नैर्ऋत्ये(ते) मारणं स्मृतम्"

 इति वचनाद्यथाकामम् ।

अथ प्रकारान्तरेण कूर्मचक्रम् ।

 समीकृ[]ते भूतले प्राक्प्रत्यगायता दक्षिणोत्तरायताश्चतस्रश्चतस्रो लेखा विलिख्य नव कोष्ठानि विधाय तत्र पूर्वादिप्रादक्षिण्येन क्रमेणाष्टसु कोणेषु कचटतपयशला(ळा ?)ख्यानष्ट वर्गा[]नकारादिस्वरद्वयं[] च विलिख्य मध्यकोष्ठे श्रीकारं विलिखेत् । अथवा मध्यकोष्ठे स्वराः प्रागादिक्रमेण । इदं च कूर्मचक्रं क्षेत्रग्रामगृहभेदात्त्रिविधम् । तत्र क्षेत्रग्रामयोस्तत्तन्नामाद्यक्षरयुक्तं कोष्ठं मुखं कूर्मस्य । एतदेव दीपस्थानमुच्यते । गृहे तु गृहपतिनामाद्यक्षरयुक्कोष्ठं मुखम् । तत्पार्श्वद्वयगतं कोष्ठद्वयं हस्तौ, तदधः स्थितं कुक्षी, तदधः स्थितं तु चरणौ, कुक्षिमध्यगतं कोष्ठं पृष्ठं, चरणमध्यगतं कोष्ठं पुच्छमिति विवेकः । एवमुक्तप्रकारस्य क्षेत्रादौ विभावितस्य कूर्मस्य मुखे पृष्ठे वा जपे होमे च सर्वार्थसिद्धिः । करयोः स्तनौ (?) । कोष्ठान्तराण्यनुपयुक्तानीति । कूर्मचक्रानावश्यकतोक्ता कतिपयेषु स्थलेषु ।

 यथा--

"कुरुक्षेत्रे प्रयागे च गङ्गासागरसंगमे ।
महाकाले च काश्यां च दीपस्थानं न चिन्तयेत्" इति ॥

 दीपस्थानोपलक्षितत्वात्कूर्मचक्रमपि दीपस्थानमित्युक्तम् ।

 इह चक्रे चोक्तेषु कोष्ठेषु रिपुस्थानं विचिन्त्य तत्त्यागपूर्वमवशिष्टमित्रस्थानमुपादेयम् ।

 अरिमित्रविचारो यथा--

"अद्वयस्य थकारेण ठकारस्यापि तेन च[]
लृद्वयस्य प्र(प)कारेण पकारस्यापि तेन च ॥
औद्वयस्य षकारेण षकारस्यौयुगेन च ।
जकारस्य टकारेण ज्ञकारस्य खकारतः ॥
उकारस्य लकारेण फकारस्य[] धकारतः ।
भकारस्य तु रेफेण यकारस्य सकारतः ॥
अरित्वमेषां वर्णानामन्येषां मित्रभावना" इति ।



  1. क. कृततले ।
  2. क. र्गानष्ट वर्गान ।
  3. क. यं द्वयं च ।
  4. ख. च । लद्व ।
  5. ख. स्य घका ।