७३८
भट्टगोपीनाथदीक्षितविरचिता-- [मुद्रालक्षणानि]
अङ्गुष्ठगर्भमुष्टिद्वयं संरोधिनीत्यर्थः ।
उत्तानमुष्टियुगुला संमुखीकरणी भवेत् ।
|
उत्तानौ मुष्टी संमुखीकरणी मुद्रेत्यर्थः ।
देवताङ्गे षडङ्गानां न्यासः स्यात्सकलीकृतिः ।
|
सकलीकरणी मुद्रेत्यर्थः ।
संनिरोधेन मुद्रायास्तर्जन्यौ सरले यदा ।
अवगुण्ठनमुद्रेयमभितो भ्रामिता मता ॥
अन्योन्यग्रथिताङ्गुष्ठा प्रप्तारितपराङ्गुलिः ।
महामुद्रेयमुदिता परमीकरणी प्रिये ॥
|
करयोरङ्गुष्ठौ संग्रथ्येतराङ्गुलीः प्रसारयेदिति महामुद्रेत्यर्थः ।
इयमेव परमीकरणीत्युच्यते ।
वामाङ्गुलीनां मध्येषु दक्षिणा अङ्गुलीरथ ।
नियोज्य तर्जनीं दक्षां मध्यया वामया तथा ॥
दक्षमध्यमया वामां तर्जनीं च नियोजयेत् ।
वामयाऽनामया दक्षां कनिष्ठां विनियोजयेत् ॥
दक्षयाऽनामया वामां कनिष्ठां च नियोजयेत् ।
विहिताऽधोमुखी चैषा धेनुमुद्रा प्रकीर्तिता ॥
|
इयमेवामृतीकरणीत्युच्यते ।
कनिष्ठानामयोः पृष्ठे स्यादङ्गुष्ठस्तु तर्जनी ।
कुटिला मध्यमा त्वृज्वी मुद्राऽसावङ्कुशाभिधा ॥
|
ऋज्वीं मध्यमां कृत्वा तर्जनीं मध्यम(मा)पर्वणि संयोज्याऽऽकुञ्चयेदित्यर्थः ।
वामाङ्गुष्ठं तु संगृह्य दक्षिणेन तु मुष्टिना ।
कृत्वोत्तानं तथा मुष्टिमङ्गुष्ठं तु प्र[१]साद(र)येत् ॥
वामाङ्गुल्यस्तथाऽऽश्लिष्टाः संयुक्ताः सुप्रसारिताः ।
दक्षिणाङ्गुष्ठके लग्ना मुद्रा शङ्खस्य भूतिदा" इति ॥
"दक्षस्यानामिकाङ्गुष्ठमध्यमाग्राणि योजयेत् ।
शिष्टे द्वे उत्थिते कुर्यान्मृगमुद्रेयमीरिता" इति ॥
|
- ↑ ङ. प्रसाचरेत् ।