पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७४७

पुटमेतत् सुपुष्टितम्
[मुद्राशब्दार्थः]
७३९
संस्काररत्नमाला
( जपमालालक्षणानि )
 

 मुद्राशब्दार्थस्तन्त्रसारे--

"मुदं स्वरूपलाभाय देहद्वारेण चाऽऽत्मनः ।
या ह्यर्पयन्त्ययत्नेन मुद्रास्ताः शक्तयो मताः ॥
मोचयन्ति ग्रहादिभ्यः पापौघं द्रावयन्ति च ।
मोचनं द्रावणं यस्मान्मुद्रा शास्त्रेषु वर्णिता" इति ॥

 जपदेशो वायवीयसंहितायाम्--

"सूर्यस्याग्नेर्गुरोरिन्दोर्दीपस्य ज्वलितस्य वा ।
विप्राणां वा गवां वाऽपि संनिधौ शस्यते जपः ॥
अथवा निवसेत्तत्र यत्र चित्तं प्रसीदति ।
गृहे जपः समः प्रोक्तो गोष्ठे दशगुणस्तु सः ॥
आरामे च तथाऽरण्ये सहस्रगुण उच्यते ॥
अयुतं पर्वते पुण्ये नद्यां लक्षगुणस्तु सः ।
कोटिं देवालये प्राहुरनन्तं शिवसंनिधौ" इति ॥

 शिव[१]ग्रहणं स्वेष्टदेवोपलक्षणम् ।

योगयाज्ञवल्क्योऽपि--

"अग्न्यगारे जलान्ते वा जपेद्देवालयेऽपि वा ।
पुण्यतीर्थे गवां गोष्ठे द्विजक्षेत्रेऽथवा गृहे" इति ॥

 शङ्खोऽपि--

"गृहे त्वेकगुणं जप्यं नद्यादौ द्विगुणं स्मृतम् ।
गवां गोष्ठे दशगुणमग्न्यगारे शताधिकम् ॥
सिद्धतीर्थेषु क्षेत्रेषु देवतायाश्च संनिधौ ।
सहस्रशतकोटीनामनन्तं विष्णुसंनिधौ" इति ॥

 विष्णुरिति स्वेष्टदेवोपलक्षणम् ।

 कूर्मपुराणेऽपि--

"गुह्यका राक्षसाः सिद्धा हरन्ति प्रसभं यतः ।
एकान्ते तु शुभे देशे तस्माज्जप्यं सदा चरेत्" इति ॥

अथ जपमाला ।

 सा त्रिविधा । मातृकाक्षरमयी, रुद्राक्षादिमणिमयी, दक्षिणकरपर्वमयी चेति ।

 तत्र प्रथमामाह सारसंग्रहकारः--

"अकारादिक्षकारान्तैर्बिन्दुवन्मातृकाक्षरैः ।
अनुलोमविलोमस्थैः क्लृप्तया वर्णमालया ॥



  1. ख. ग. वग्रह[:] स्वे ।