पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७४८

पुटमेतत् सुपुष्टितम्
७४०
भट्टगोपीनाथदीक्षितविरचिता-- [जपमालालक्षणानि]

प्रत्येकं व[१]र्णयुङ्मन्त्रा जप्ताः स्युः क्षिप्रसिद्धिदाः ।
वैरिमन्त्रा अपि नॄ[२]णां सुसिद्धाद्यास्तु किं पुनः" इति ॥

तत्प्रकारस्तन्त्रप्रकाशे--

" ब्रह्मनाडीगतानादिक्षान्तवर्णान्विभाव्य च ।
अर्णं बिन्दुयुतं कृत्वा स्वेष्टमन्त्रं जपेत्सुधीः ॥
अकारादिषु संयोज्य तथा कादिषु च क्रमात् ।
क्षार्णं मेरुमथो तत्र कल्पयेज्जगदीश्वरि ॥
तदा लिपिर्भवेदक्षमालार्धशतसंख्यया ।
अनया सर्वमन्त्राणां जपः सर्वार्थसाधकः ॥
क्षकारं मेरुसंधाने लकारादिविलोमतः ।
एकैकान्तरितं म[३]न्त्रैर्जपेदेवं फलप्रदम्" इति ॥

 यदा[४] प्रात्या(त्य)हिकोऽष्टोत्तरसहस्रमष्टोत्तरशतं वा जपः कार्यस्तदा--

"वर्गाष्टकविभेदेन भवेदष्टोत्तरं शतम्" ।

 इति प्रकारो ज्ञेयः । अक्षमालाशब्दस्त्वत्रैव मुख्यः ।

 उक्तं च शारदातिलके--

"आदिक्षान्तार्णयोगित्वादक्षमालेति कीर्तिता" इति ।

  ज्ञानार्णवेऽपि--

" अकारः प्रथमो देवि क्षकारोऽन्त्यस्ततः परम् ।
अक्षमालेति विख्याता मातृकावर्णरूपिणी" इति ॥

 वर्गाष्ट[५]कजपस्तूद्दिष्टशतादिसंख्यावसाने कार्यः ।

तदुक्तं मातृकार्णवे--

"आरभ्याकारमादौ मनसि परिजपे[६]न्मातृकां सावसानां
धृत्वा तच्चावसानं पुनरपि च पठेदान्तमेवावरोहे[७]
ळान्तानष्टौ च वर्गास्तदनु परिजपेद्भूय एवावसाने
ह्यान्तं संहारमुक्तं पशुपतिगदिता यामले मालिकेयम्" इति ॥

 धृत्वा मेरुस्थाने । अवसानं क्षकारः[८] । ळान्तान्कचटतपयश[९]ळाख्यान् । तदनूद्दिष्टसंख्यासमाप्त्यनन्तरम् । अवसाने, उद्दिष्टशतादिसंख्यावसाने । एवोऽवधारणे ।



  1. क. वर्णायु ।
  2. ग. नृणां ।
  3. ङ. मन्त्रं जपे
  4. ङ. दाऽष्टो ।
  5. क. ष्टकाजप उद्दि ।
  6. क. ख. ग. पे मातृ ।
  7. ख. ग. हे । लान्ता ।
  8. क. ख. ग. रः । लान्ता ।
  9. क. ख. ग. शलाख्या ।