पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७५०

पुटमेतत् सुपुष्टितम्
७४२
भट्टगोपीनाथदीक्षितविरचिता-- [जपमालालक्षणानि]

मिश्रणे निषेध उत्तरतन्त्रे--

"इन्द्राक्षैर्यदि जप्येत रुद्राक्षैः स्फाटिकैस्तथा ।
नान्यन्मध्ये प्रयोक्तव्यं पुत्रजीवादिकं च यत् ॥
यद्यन्यत्तु प्रयुञ्जीत मालायां जपकर्मणि ।
तस्य कामं च मोक्षं च न ददाति प्रियंकरि ॥
जन्मान्तरे जायतेऽसौ वेदवेदाङ्गपारगः ।
मिश्रीभावं ततो याति चण्डालैः पापकर्मभिः" इति ॥

मणिसंख्यामाह प्रजापतिः--

"अष्टोत्तरशतं कुर्याच्चतुष्पञ्चा[]शिका तथा ।
सप्तविंशतिका[] कार्या ततो नैवाधिका हिता ॥
अष्टोत्तरशता माला उत्तमा सा प्रकीर्तिता ।
चतुष्पञ्चाशिका वत्स मध्यमा सा प्रकीर्तिता ॥
अधमा प्रोच्यते नित्यं सप्तविंशतिसंख्यया" इति ।

 अयुतादिसंख्यजपे तु-- "न खण्डां कारयेन्मालां जपकर्मणि मानवः" ।

 इति मालाखण्डननिषेधादेतासां मालानां जपसाधनत्वासंभवेन शतसंख्यमणिघटितमालाया विधानाभावेऽप्यनायत्या(पत्त्या) शतसंख्यमणिघटितैव मालाऽत्र कल्पनीया ।

 "अयुतादिजपे प्रोक्ता मालाऽक्षैः शतसंख्यकैः" इति वचनादिति केचित् ।

 अन्ये तु--अयुतादिसंख्यजपे शतसंख्यवर्णमालैव द्रष्टव्या न तु मणिमयी । एतस्या मालाया अखण्डाया अत्रासंभवात् । शतसंख्यमणिमालाप्रतिपादकवचनस्य निर्मूलत्वाच्चेत्याहुः । अष्टोत्तरसहस्रजपे तु वर्णमयी करमयी वा मालेति । सा चाग्रे वक्ष्यते ।

 गौतमः--

<poem"अङ्गुष्ठं मोक्षदं विद्यात्तर्जनी शत्रुनाशनी । मध्यमा धनकामायानामिका पौष्टिकी तथा ॥ कनिष्ठा रमणी प्रोक्ता जपकर्मणि शोभना । अङ्गुष्ठेन जपञ्ज(पेज्ज)प्यमन्यैरङ्गुलिभिः सह ॥ अङ्गुष्ठेन विना जप्यं कृतं तदफलं भवेत्" इति ।</poem>

 शैवागमे--

"तर्जन्या न स्पृशेत्सूत्रं कम्पयेन्न च घर्षयेत् ।
न स्पृशेद्वामहस्तेन करभ्रष्टां न कारयेत् ॥
अक्षाणां चालनेऽङ्गुष्ठेनान्यमक्षं न संस्पृशेत् ।



  1. ङ. शिकां त ।
  2. ड. तिकां का ।