पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७५७

पुटमेतत् सुपुष्टितम्
[जपविधिः]
७४९
संस्काररत्नमाला

 इति मत्स्यपुराणे निन्दितत्वात् ।

वैशम्पायनः--

"नैरन्तर्यविधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् ।
दिवसातिक्रमात्पुंसो मन्त्रसिद्धिर्भवेन्न हि ॥
यावत्संख्यं जपेदह्नि पूर्वस्मिंस्तावदेव तु ।
दिनान्तरेऽपि प्रजपेदन्यथा सिद्धिरोधकृत्" इति ॥

फेत्कारिणीतन्त्रे--

"जपकाले यदा पश्येदशुचिं मन्त्रवित्तमः ।
प्राणायामं ततः कृत्वा जपशेषं समापयेत् ॥
यदा चैवं भवेन्मन्त्री स्वयमप्यशुचिः पुनः ।
स्नात्वाऽऽचम्य यथापूर्वं न्यासं कृत्वा पुनर्जपेत्" इति ॥

 न्यासोऽधिकारसंपादकः । एतेन मूत्रोत्सर्गादावशुचित्वसंभवश्चेत्स्नानमन्यथा प्राणायामकरषडङ्गन्यासान्कृत्वा शेषं समापयेदिति प्रतीयते ।

कपिलपञ्चरात्रे--

 "विक्षेपादथवाऽऽलस्याज्जपहोमार्चनान्तरा ।
उत्तिष्ठति तदा न्या[१]सं षडङ्गं विन्यसेत्पुनः" इति ॥

 गौतमः--

"ध्यानार्चनजपानां च प्राणायामास्त्रयस्त्रयः ।
आद्यन्तयोर्विधीयन्ते नासिकापुटचारिणः" इति ॥

योगयाज्ञवल्क्यः--

"यदि वाग्यमलोपः स्याज्जपादिषु कदाचन ।
व्याहरेद्वैष्णवं मन्त्रं स्मरेद्वा विष्णुमव्ययम्" इति ॥

 वैष्णव मन्त्र इदं विष्णुरिति ।

संवर्तोऽपि--

"लोकवार्तादिकं श्रुत्वा श्रुत्वा च पु(प)रुषं वचः ।
संख्यां विना च यज्जप्तं तत्सर्वं निष्फलं भवेत्" इति ॥

([२]गौतमोऽपि--

"गच्छतस्तिष्ठतो वाऽपि स्वेच्छया कर्म कुर्वतः ।
अशुचेर्वा विना संख्यां तत्सर्वं निष्फलं भवेत्" इति ॥)

 नारदः--

"संख्यापूर्तौ निजैर्द्रव्यैर्जपसंख्यादशांशतः ।
यथोक्तकुण्डे जुहुयाद्यथाविधि समाहितः ॥
अथवा प्रत्यहं जप्त्वा जुहुयात्तु दशांशतः" इति ।

 ([३]लक्षा[४]न्ते लक्षान्ते होमादि, इत्यपि तन्त्रान्तरे । होमाशक्तौ ब्राह्मणानां

पुरश्चरणजपसंख्याद्विगुणो जप इति मुख्यः पक्षः । होमसंख्याद्विगुणो जप इति



  1. क. ग. न्यासष ।
  2. एतच्चिह्नान्तर्गतो ग्रन्थो ङ. पुस्तकातिरिक्तपुस्तकेषु नास्ति ।
  3. धनुश्चिह्नान्तर्गतो ग्रन्थो ङ. पुस्तके नास्ति ।
  4. क. ग. क्षान्तलक्षान्तहो ।