पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७५८

पुटमेतत् सुपुष्टितम्
७५०
[संतानप्रदगोपालमन्त्रपुरश्चरणप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

गौणः । क्षत्त्रियादीनां त्रिगुणादिजपः । एवं तर्पणेऽपि । द्विजभक्तस्य शूद्रस्य द्विजस्त्रीणां च होमप्रतिनिधिर्जप एव । तेषां होमे तु नाधिकारः । ब्राह्मणभोजनस्य तु न क्वापि प्रतिनिधिरिति कल्पसूत्रे द्रष्टव्यम् । ) होमानन्तरं तर्पणादि कार्यम् ।

 तदुक्तं मन्त्र[१]तन्त्रप्रकाशे--

"एवं होमं समाप्याथ तर्पयेद्देवतां जले ।
आवाह्य तद्दशांशेन तर्पणादभिषेचनम् ॥
तर्पयामि नमश्चेति द्वितीयान्तेष्टपूर्वकम्

 द्वितीयान्तमिष्टं प्रकृतकर्मण इष्टदेवताया नाम गृहीत्वा तर्पयामि नम इति तर्पयेदित्यर्थः ।

मूलान्ते तु पदं देयं सिञ्चामीत्यभिषेचने ।
ततो नानाविधैरन्नैस्तर्पयेद्द्विजसत्तमान् ॥
इष्टरूपान्समाराध्य तेभ्यो दद्याच्च दक्षिणाम् ।
न्यूनं संपूर्णतामेति ब्राह्मणाराधनान्नृणाम् ॥
देवताश्च प्रसीदन्ति संपद्यन्ते मनोरथाः" इति ।

 ( [२]सर्वेऽपि मन्त्रा गुरुमुखादवगम्यैव जप्तव्या नान्यथा ।

"पुस्तके लिखितान्मन्त्रानवलोक्य जपेत्तु यः ।
स जीवन्नेव चाण्डालो मृतः श्वा वै भविष्यति"

 इति सांख्यायनतन्त्रे गुरुमुखावगमं विना जपस्य निषेधात् । )

अथ[३] प्रयोगः ।

 कर्ता सपत्नीकः सुस्नातः कृतनित्यक्रिय आदौ शरीरशुद्ध्यर्थमेनसो [४]गुरुलाघवानुसारेण सर्वप्रायश्चित्तं विधाय निर्विघ्नतासिद्ध्यर्थं विनायकशान्तिं ग्रहानुकूल्यार्थं ग्रहयज्ञं मन्त्रसिद्ध्यर्थमयुतत्रयं गायत्रीजपं च कृत्वा शुभे दिने शुचीन्मन्त्रवतो विप्रानाहूय तैरनुज्ञातो देशकालौ संकीर्त्य श्रीसंतानप्रदगोपालकृष्ण[५]प्रीतिपूर्वकमन्त्रसिद्ध्यर्थं पुरश्चरणमहं करि[६]ष्य इत्येवं श्रीसंतानप्रदगोपालकृष्णदेवतामन्त्रसिद्धिद्वारा संतानप्रदगोपालकृष्णदेवताप्रीत्यर्थं पुरश्चरणमहं



  1. ङ. न्त्रप्र ।
  2. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
  3. ङ च थ संतानप्रदगोपालमन्त्रप्र ।
  4. गौरवलाघवेत्यादि तु युक्तं पठितुम् ।
  5. ङ. च. ष्णदेवताम
  6. ङ. रिष्ये । तत्राऽऽदौ निर्वि ।