पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७६४

पुटमेतत् सुपुष्टितम्
७५६
भट्टगोपीनाथदीक्षितविरचिता-- [अन्तर्मातृकान्यासः]

पूरकः कादिभिः कुम्भको यादिभी रेचक इति प्राणायामक्रमः । इत्थं प्राणायामत्रयं कृत्वा, अस्य श्रीमातृकामन्त्रस्य[१] ब्रह्मण ऋषये नमः शिरसि । गायत्र्यै छन्दसे नमो मुखे । मातृकासरस्वत्यै देवतायै नमो हृदये । हल्भ्यो बीजेभ्यो नमो गुह्ये । स्वरेभ्यः शक्तिभ्यो नमः पादयोः । व्यक्तये कि(की)लकाय नमो नाभौ । मातृकान्यासे विनियोगाय नमः सर्वाङ्गे । ॐ अं कं खं गं घं ङं आं अङ्गुष्ठाभ्यां नमः । ॐ इं चं छं जं झं ञं ईं तर्जनीभ्यां नमः । ॐ उं टं ठं डं ढं णं ऊं मध्यमाभ्यां व[२]षट् । ॐ एं तं थं दं धं नं ऐं अनामिकाभ्यां हु[३]म् । ॐ ओं पं फं बं भं मं औं कनिष्ठिकाभ्यां वौ[४]षट् । ॐ अं यं रं लं वं शं षं सं हं ळं क्षं अः करतलकरपृष्ठेभ्यः फ[५]ट् । ॐ अं कं खं गं घं ङं आं हृदयाय नमः । ॐ इं चं छं जं झं ञं ईं शिरसे स्वाहा । ॐ उं टं ठं डं ढं णं ऊं शिखायै वषट् । ॐ एं तं थं दं धं नं ऐं कवचाय हुं । ॐ ओं पं फं बं भं मं औं नेत्रत्रयाय वौषट् । ॐ अं यं रं लं वं शं षं सं हं ळं क्षं अः अस्त्राय फट् । सर्वाभिर्मातृकाभिस्त्रिर्व्यापकम् ।

 अथ ध्यानम्--

"पञ्चाशद्वर्णभेदैर्विहितवदनदोःपादहृत्कुक्षिवक्षो-
देशां भास्वत्कपर्दाकलितशशिकलामिन्दुकुन्दावदाताम् ।
अक्षस्रक्कुम्भचिन्तालिखितवरकरां त्रीक्षणां पद्मसंस्था-
मच्छाकल्पामतुच्छस्तनजघनभरां भारतीं तां नमामि" ।

 दक्षिणोर्ध्वकरमारभ्य दक्षाधःकरपर्यन्तमायुधस्थितिः । चिन्तालिखितं पुस्तकम् । एवं ध्यात्वाऽन्तमार्तृकान्यासं कुर्यात् । तत्राऽऽदौ कण्ठस्थे विशुद्ध(द्धि)चक्रे षोडशदले पूर्वादिप्रादक्षिण्येन । ॐ अं नमः । ॐ आं नमः । ॐ अः नमः । इति विन्यस्य हृदयस्थेऽनाहतचक्रे द्वादशदले पूर्वादिप्रादक्षिण्येन । ॐ कं नमः । ॐ खं नमः । ॐ गं नमः । ॐ घं नमः । ॐ ङं नमः । ॐ चं नमः । ॐ छं नमः । ॐ जं नमः । ॐ झं नमः । ॐ ञं नमः। ॐ टं नमः । ॐ ठं नमः । इति विन्यस्य, नाभिमण्डलस्थे मणिपूरचक्रे दशदले पूर्वादि[६]प्रादक्षिण्येन । ॐ डं नमः । ॐ ढं नमः । ॐ णं नमः । ॐ तं नमः । ॐ थं नमः । ॐ दं नमः । ॐ धं नमः । ॐ नं नमः । ॐ पं नमः । ॐ फं नमः । इति विन्यस्य लिङ्गमूलस्थे स्वाधिष्ठानचक्रे षड्दले पूर्वादिप्रादक्षिण्येन । ॐ बं



  1. एतस्मात्परं विनियोगवाक्यं त्रुटितमित्यनुमीयते ।
  2. क. नमः ।
  3. क. नमः । क. ड. हुम् ।
  4. क. नमः ।
  5. क. नमः ।
  6. क. दिक्रमेण । ॐ ।