एतेषामन्यतमेन यथाकामं ध्यात्वा मानसोपचारैः संपूज्य कलशाराधनं कुर्यात् । शुद्धजलपूरितं कलशं स्ववामभागे संस्थाप्य कलशस्य मुखे विष्णुरित्यादिना तस्मिन्कुम्भेऽङ्कुशमुद्रया तीर्थान्यावा[१]हयेत् । कलशं गन्धपुष्पाक्षतैः संपूज्य तद्दक्षिणतः प्रक्षालितं शङ्खमाधारपात्रे संस्थाप्य कलशोदकेन शङ्खं पूरयित्वा शङ्खमुद्रां प्रदर्श्य,
"ॐ पाञ्चजन्याय विद्महे पावमानाय धीमहि । |
इति शङ्खगायत्र्या तं गन्धपुष्पाक्षतैः संपूज्य तदुदकं किंचित्कलशे प्रक्षिप्य शङ्खात्किंचिदुदकं पात्रान्तरे गृहीत्वा तेन जलेन पूजाद्रव्याणि भूमिमात्मानं च प्रोक्ष्य जगद्ध्वनिमन्त्रमातः स्वाहेति घण्टां संपूज्य,
"आगमार्थं तु देवानां गमनार्थं तु रक्षसाम् । |
ततो मही द्यौरित्यादिविधिना कलशं संस्थाप्य शुद्धजलेन पूरणादिपूर्णपात्रनिधानान्तं कृत्वा तत्र वरुणमावाह्य[२] संपूजयेत् ।
ततस्तदुप[३]रि पीतं वस्त्रमास्तीर्य, ([४] उशीरवालकचन्दनकेशरकुष्ठागुरुमुस्ताजटामांस्यात्मकेनाष्टगन्धेन ) कस्तूरीचन्दनकेशरागरुमांसीमुक्ताकर्पूरकुष्ठात्मकेनाष्टगन्धेन[५] वा सकर्णिकमष्टदलं विलिख्य देवता आवाहयेत् । तत्राऽऽवाहनप्रकारो यथा--पद्माधः । ([६]पूर्वादिदिक्षु ।) आधाररूपिण्यै शक्तये नमः । कूर्माय नमः । शेषाय नमः । वराहाय नमः । मण्डूकाय नमः । कालाग्निरुद्राय नमः । धरण्यै नमः । वृन्दावनाय नमः । इति पद्माधः ।
अथ मञ्चके--आग्नेयादिचतुर्दिक्षु । धर्माय नमः । ज्ञानाय नमः । वैराग्याय नमः । ऐश्वर्याय नमः । ततः पूर्वादिचतुर्दिक्षु । अधर्माय नमः । अज्ञानाय नमः । अवैराग्याय नमः । अनैश्वर्याय नमः ।
तदुपरि पद्मदेवताः--कन्दाय नमः । नालाय नमः । कर्णिकायै नमः । पत्रेभ्यो नमः ।
ततः कर्णिकायाम्--सूर्याय नमः । सोमाय नमः । द्वयोर्मध्येऽग्नये नमः ।