पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७६९

पुटमेतत् सुपुष्टितम्
[मालासंस्कारहोमविधिः]
७६१
संस्काररत्नमाला

मावाहयामि । सुभद्रायै नमः सुभद्रामावाहयामि । गोपेभ्यो नमो गोपानावाहयामि । गोपिकाभ्यो नमो गोपिका आवाहयामि ।

 ततः प्रागादिक्रमेण स्वस्वदिक्षु--इन्द्राय नम इन्द्रमावाहयामि । अग्नये नमोऽग्निमावाहयामि । यमाय नमो यममावाहयामि । निर्ऋतये नमो निर्ऋतिमावाहयामि । वरुणाय नमो वरुणमावाहयामि । वायवे नमो वायुमावाहयामि । कुबेराय नमः कुबेरमावाहयामि । ईशानाय नम ईशानमितीन्द्राद्यष्टौ लोकपालानावाहयेत् ।

 ततस्तत्तत्संनिधौ वज्राय नमो वज्रमावाहयामि । शक्तये नमः शक्तिमावाहयामि । दण्डाय नमो दण्डमावाहयामि । खड्गाय नमः खड्गमावाहयामि । पाशाय नमः पाशमावाहयामि । अङ्कुशाय नमोऽङ्कुशमावाहयामि । गदायै नमो गदामावाहयामि । त्रिशूलाय नमस्त्रिशूलमावाहयामि । इति वज्रादीन्यायुधानि ।

 इत्यावरणदेवता आवाह्य नर्य प्रजामिति प्रतिष्ठाप्य मूलमन्त्रेण पीठावरणदेवतासहितं देवं षोडशोपचारैर्भक्त्या पूजयित्वा मालासंस्कारं कुर्यात् ।

 स यथा--कुशोदकेन पञ्चगव्यैश्च गायत्र्या सद्योजाताद्यैः पञ्चभिर्मन्त्रैर्मूलेन च मालां प्रक्षाल्य पद्माकारवत्संस्थापितेऽश्वत्थपत्रनवके मालां निधाय, अं आं इं ईं इत्यादिमातृका विन्यस्य पुनर्गायत्र्या सद्योजाताद्यैः पञ्चभिर्मन्त्रैर्मूलेन पञ्चगव्यैः प्रक्षाल्यैतैरेवाभिमन्त्र्य सद्योजातमितिमान्त्रेण पञ्चगव्यैः शुद्धोदकेन च मन्त्रावृत्त्या पुनः प्रक्षाल्य वामदेवायेति सुगन्धिचन्दनेन विधृष्य, अघोरेभ्य इति कृष्णागुरुगुग्गुल्वाद्यैर्धूपयित्वा तत्पुरुषायेति कस्तूरीकुङ्कुमाद्यैरनुलिप्य, ईशान इति सर्वान्मणीनभिमन्त्रयेत् । प्रतिमणि मन्त्रावृत्तिः । ततोऽघोरेभ्य इत्यनेन मेरुं शतवारमभिमन्त्र्य, ॐ आं ह्रीं क्रों यमित्यादि सोऽहमित्यन्तमुक्त्वा मालायाः प्राणा इत्याद्यूहेन प्राणप्रतिष्ठां कृत्वा मन्त्रदेवतां गोपालं तत्राऽऽवाह्य मूलेनैव संपूज्य मूलेन मातृकाभिश्चाभिमन्त्रयेत् ।

अथ[१] मालासंस्कारहोमविधिः ।

 आचम्य प्राणानायम्य स्थण्डिलकरणादि कृत्वा बलवर्धननामानं लौकिकाग्निं स्थण्डिले प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा मालासंस्कारहोमकर्मणि या यक्ष्यमाणा देवता तां परिग्रहीष्यामि । मूलमन्त्रेण मन्त्रदेवतामष्टोत्तरशतसंख्याकाभिराज्याहुतिभि



  1. क. ख. ग. च.थ हो ।