र्यक्ष्ये । अग्निं स्विष्टकृतं हुतशेषाज्याहुत्या यक्ष्य इत्युक्त्वाऽन्वाधानसमिदभ्याधानाद्यापूर्विकतन्त्रेण प्रधानहोमात्पूर्वतनं कर्म कुर्यात्[१] ।
ततः--
"ॐ क्लीं देवकीसुत गोविन्द वासुदेव जगत्पते । |
इति मूलमन्त्रेणाष्टोत्तरशतमाज्याहुतीर्जुहुयात् । प्रत्याहुति संपाताज्यं मालायां निक्षिपेत् । अग्नये स्विष्टकृते स्वाहेत्येकां हुतशेषाज्याहुतिं हुत्वोत्तरपरिषेकाद्यापूर्विकतन्त्रेणोत्तराङ्गानि(णि) कुर्यात् । होमाशक्तौ होमसंख्याद्विगुणसंख्यया मूलेन मालाभिमन्त्रणम् । ततः--ह्रीं सिद्ध्यै नम इति मन्त्रेण मालां देवताभावनया संपूजयेत् । इति मालासंस्कारः ।
ततः--
"ॐ मां माले महामाये सर्वशक्तिस्वरूपिणि । |
इति मालां नमस्कृत्य ह्रीं सिद्ध्यै नम इति दक्षिणकरे गृहीत्वा [२]गणपतिबीजमुच्चार्य, अविघ्नं कुरु माले त्वमिति संप्रार्थ्य वस्त्रादिनाऽऽच्छादितां मालां स्वहृदयसमीपे धृत्वाऽङ्गुष्ठमध्यमाभ्यां मणीनावर्तयन्यथोक्तब्रह्मचर्यादिनियमवानुन्नतगात्रो मनसोपांशु वा मध्याह्नपर्यन्तं यथाशक्ति जपं कुर्यात् । आरम्भदिवसे यावत्संख्यं जपः कृतस्तावत्संख्य एव प्रत्यहं कार्यः । उपद्रवसंभावनायां दिवसचतुर्थभागपर्यन्तमपि जपः कर्तव्यः । न तत्र संख्यातिक्रमदोषः । जपसमाप्तौ तां मालां ह्रीं सिद्ध्यै नम इति नमस्कृत्य,
"त्वं माले सर्वदेवानां प्रीतिदा शुभदा मम । |
इति मालां शिरसि निधाय सुगुप्तस्थले निदध्यात् ।
ततो मूलेन प्राणानायम्य पूर्ववत्करन्यासाङ्गन्यासान्कृत्वा पूर्ववद्ध्यात्वा देवं पञ्चोपचारैः संपूज्य,
"गुह्यातिगृह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् । |
इति जलधारया देवस्य दक्षिणहस्ते जपं निवेदयेत् ।
यद्यन्यदीयं जपं करोति तदा मयीत्यत्र यजमान इत्यूहः । एवं पुरश्चरण