पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७७६

पुटमेतत् सुपुष्टितम्
७६८
भट्टगोपीनाथदीक्षितविरचिता-- [दत्तपुत्रविधानम्]

वरप्रदानाद्दक्षिणां ददात्येते च वाससी एते कुण्डले एतच्चाङ्गुलीयकं
यद्येवं कृत्वौरसः पुत्र उत्पद्यते तुरीयभागे प्रभवतीत्याह भगवान्बौधा-
यनः" इति ।

 मातापितृनिमित्तकः शुक्रशोणितसंभव इत्यन्वयः । मातापितृनिमित्तक इत्यनेन क्षेत्रजादिव्यावृत्तिः । इदं च संभवविशेषणम् । शुक्रशोणितसंभव इत्यनन्तरं यस्येति शेषः । एतेनौरसस्यैव प्रदानपरित्यागविक्रया नान्येषां दत्तकादीनामिति सूच्यते । मातापितरौ प्रभवत इति । मातापित्रोरेव दानाधिकार इत्याशयः । स हि संतानाय पूर्वेषाम् । हि यस्मात्स एकः पुत्रः पूर्वेषां संतानाय भवत्यत एकं पुत्रं नैव दद्यादित्यर्थः । अङ्गुलीयकं चेत्यत्र चकारश्छत्रादिसमुच्चयार्थः । कुशमयं बर्हिरिति प्रतिनिधिर्नैवात्र भवतीति ज्ञापनार्थम् । एवं पर्णमयमिध्ममित्यत्रापि । मध्य इति । बन्धुसमक्षं राजन्यावेदनं कार्यमित्याशयः । अङ्गुलीयकमित्यनन्तरमनुषक्तेन ददातीत्यनेन पुत्रसंबन्धिवस्त्रद्वयकुण्डलाङ्गुलीयकदानं विधीयते । स्त्रिया तु भर्त्रनुज्ञया ग्राह्यः । सा च सधवाया एव दृष्टार्थत्वात् । विधवायास्तु तां विनाऽपि पितुस्तदभावे ज्ञातीनामाज्ञया भवति ।

 अत एव--

"रक्षेत्कन्यां पिता विन्नां पतिपुत्रास्तु वार्धके ।
अभावे ज्ञातयस्तेषां न स्वातन्त्र्यं क्वचित्स्त्रियाः" ॥

 इति याज्ञवल्क्येनावस्थाविशेष एव भर्तुः पारतन्त्र्यमुक्तम् । तदभावे वार्धकादिना तस्याक्षमतायां वा पुत्रादीनामपि ।

कात्यायनेनापि--

"नारी खल्वननुज्ञाता पित्रा भर्त्रा सुतेन वा ।
विफलं तद्भवेत्तस्माद्यत्करोत्यौर्ध्वदेहिकम्" ॥

 इत्यवस्थाविशेष एव पितृभर्त्राद्यनुज्ञोक्ता । और्ध्वदेहिकं पारलौकिकम् । यस्यामवस्थायां भर्तुरनुज्ञा[] प्राप्ता सैवात्रानूद्यते न त्वपूर्वा विधीयतेऽतो विधवा या भर्तुरनुज्ञां विनाऽप्यधिकार इति नवीनाः । परिणीत उत्पन्नपुत्रोऽपि च दत्तको भवतीति द्वैतनिर्णये । यत्तु दत्तकमीमांसादौ वृद्धगौतमीयं,

"दत्तपुत्रे यथाजाते कदाचित्त्वौरसो भवेत् ।
पितुर्वित्तस्य सर्वस्य भवेतां समभागिनौ" ॥

 इति वचनं तद्दत्तकस्य गुणव[]त्त्व औरसस्य च निर्गुणत्वे वेदितव्यम्, यथा-



  1. क. ज्ञा प्रमाणैवा ।
  2. च. वत्त्वे वे ।