जात इति विशेषणात् । यथा गुणानां जातं समूहो यस्मिन्निति यथाजातो गुणसमूहवानित्यर्थः । यथाशब्दस्य गुणयोगे सादृश्ये शक्तत्वात् ।
अत एव मनुः--
"उपपन्नो गुणैः सर्वैः पुत्रो यस्य तु दत्तिमः । |
इत्यौरसाभावे सर्वरिक्थग्रहणमुक्तवान् । तद्युक्तमेवौरसे सत्यर्धांशहरत्वम् ।
परिग्रहविध्यभावे विशेषमाह स एव--
"अविधाय विधानं यः परिगृह्णाति पुत्रकम् । |
परिग्रहविधिं विना परिगृहीतस्य विवाहमात्रं कार्यं न धनदानमित्यर्थः । किंतु तत्र पत्न्यादय एव धनभाजः । विधिं विना तस्य पुत्रत्वानुत्पादात् ।
अत एव वृद्धगौतमः--
"स्वगोत्रेषु कृता ये स्युर्दत्तक्रीतादयः सुताः । |
विधिनैव गोत्रतां यान्तीति नियमः । दानादिविधीनां दत्तकादिलक्षणान्तर्गतत्वेन स्वरूपनिर्वाहकत्वात् ।
यथोक्तम्-- "यमद्भिः पुत्रमापदि" इति । आपद्ग्रहणं सकलदानविधेरुपलक्षणं, तेन च प्रतिग्रहविधिरप्याक्षिप्तो भवति । संप्राप्तोऽप्यन्यगोत्रत इति मानवात् । सम्यग्विधिना प्राप्तमि(प्त इ)त्यर्थः । एतदभिप्रेत्यैव[१] च वसिष्ठेनापि तस्य दानविक्रयपरित्यागेषु मातापितरौ प्रभवत इत्युपक्रम्य परिग्रहविधिरभिहितः । मनुवाक्ये क्रीतादय इत्यादिशब्देन कृत्रिमापविद्धस्वयंदत्तानां ग्रहणम् । तस्मादेषां पञ्चानां पुत्राणां बौधायनाद्युक्तविधिपरिग्रहेणैव पुत्रत्वं नान्यथेति । विस्तरस्त्वन्यत्रानुसंधेयः ।
तत्र पञ्चवार्षिकस्ततो न्यूनः पितृगोत्रेणाकृतचूडश्च प्रतिग्राह्यः । नाधिकवयस्कः कृतचूडश्च । तत्र पुत्रो भ्रातुर्ग्राह्यः । तदभावे सगोत्रः सपिण्डोऽपि यः कश्चित् । तदभावे त्वसगोत्रः सपिण्डः । तदभावे त्वसपिण्डः सगोत्रः । तदभावे त्वसपिण्डोऽसगोत्रोऽपि । तत्रापि भागिनेयदौहित्र[२]मातृष्वस्रीयपितृष्वस्रीयवर्जं पुत्रत्वबुद्ध्यनर्हभ्रातृपितृव्यमातुलवर्जं च । त्रयाणां वर्णानां स्वसमानवर्ण एव । तत्रापि देशभेदप्रयुक्तगुर्जर[३]त्वादिजात्या समानजातीय एव । सर्वोऽपि सभ्रातृक एव ज्येष्ठभिन्नश्चेति । अत्र प्रमाणं प्राचीननवीनग्रन्थेषु द्रष्टव्यम्, विस्तरभीत्या न प्रदर्श्यते ।