ततः पवित्रकरणादिप्रणीताप्रणयनान्तं कृत्वा विरमति । ततः प्रतिग्रहीता ब्राह्मणैर्बन्धुवर्गैश्च सह दातुः समक्षं गत्वा तत्समी[१]पे तिष्ठन्पुत्रं मे देहीति भिक्षेत्(त)।
ततो दाता ददामीत्युक्त्वाऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य श्रीपरमेश्वरप्रीत्यर्थं पुत्रदानमहं करिष्य इति संकल्प्य गणपतिं संपूज्य यथाविभवं वस्त्रगन्धादिभिः प्रतिग्रहीतारं संपूज्येमं पुत्रं तव पैतृकर्णापाकरणपुंनामनरकत्राणसि[२]द्धिद्वाराऽऽत्मनश्च श्रीपरमेश्वरप्रीत्यर्थं तुभ्यमहं संप्रददे न मम प्रतिगृह्णातु पुत्रं भवानित्यन्ते प्रतिग्रहीतृहस्ते साक्षतं सतुलसीपत्रं जलं क्षिपेत् । त्रिरिति केचित् । ( [३]स्त्रियै दाने त्विमं पुत्रं त्वद्भर्तुस्तव चेति दानवाक्ये दात्रोहः कार्यः । ) ततः प्रतिग्रहीता ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां धर्माय त्वा गृह्णामि संतत्यै त्वा गृह्णामीति हस्तद्वयेन प्रतिगृह्य स्वाङ्क उपवेश्य मूर्ध्न्याजिघ्रेत् ।
ततो युवं वस्त्राणीत्यस्य विश्वे देवा वसवस्त्रिष्टुप् । वस्त्रपरिधाने विनियोगः । "ॐ युवं वस्त्राणि पीवसा वसाथे० सचेथे" इत्यासादितयोर्वाससोर्मध्य एकं परिधाप्यैतेनैव मन्त्रेण द्वितीयमुत्तरीयं कारयित्वा तूष्णीमुष्णीषं बद्ध्वा कुङ्कुमादिना तिलकं कृत्वा कुण्डलाभ्यामङ्गुलीयकेन चालंकृत्य सति विभवेऽन्यैरपि भूषयित्वा छत्रेणाऽऽच्छादितं बालं नृत्यगीतवाद्यैः स्वस्ति न इन्द्रो वृद्धश्रवा अष्टौ देवा वसवः सोम्यास इति द्वाभ्यां स्वगृहमानीय [४] हस्तपादान्प्रक्षाल्याऽऽचम्याग्नेः पश्चान्मातुरुत्सङ्ग उपवेशयेत् ।
तत आचार्यः शूर्प चतुरो मुष्टीनिरू(रु)प्येत्यादिचरुकल्पेन चरुं श्रपयित्वाऽभिघार्योद्वास्य परिषेकाधन्वाधानोत्कीर्तनानुसारेण प्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वा कृत्वा प्रधानहोमं कुर्यात् । दव्या वेणोपस्तीर्य चरुमवदानविधिना मेक्षणेनैव द्विरवदायावत्तमभिघार्य शिष्टं हविः प्रत्यज्य यस्त्वा हृदेतिद्वयोर्विश्वे देवा अग्निस्त्रिष्टुप् । पुत्रप्रतिग्रहवैशेषिकप्रधानचरुहोमे विनियोगः । “ॐ यस्त्वा हृदा कीरिणा० मश्याम्" इति पुरोनुवाक्यामनूच्य "ॐ यस्मै त्वर सुकृते जातवे ० ते स्वस्ति स्वाहा" इति याज्यया जुहोति । अग्नय 'इदं० । अथवाऽनिद्वयसंसर्गोक्तेन पुरोनुवाक्यायाज्याधर्मेण होमः ।
तत आज्येन व्यस्तसमस्तव्याहृतिभिश्चतस्र आज्याहुतीर्जुहुयात् ।