पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७८५

पुटमेतत् सुपुष्टितम्
[पुनराधाननिमित्तानि]
७७७
संस्काररत्नमाला

समस्य जुहुयात्पश्चादिष्टिस्तन्तुमती भवेत् ।
न तत्र पुनराधेयमिति कौषीतकी श्रुतिः ॥
वत्सरं वत्सरार्धं वा होमलोपे मतान्तरम् ।
आपत्काले न नश्यन्ति दीप्यन्ते चेद्धुताशनाः" इति ॥

प्रायश्चित्तकुतूहले--

"खरोष्ट्रवृषभं नारी समारुह्याथवा पुमान् ।
योजने योजने कृच्छ्रमग्निश्चापि विनश्यति" इति ॥

 यज्ञपार्श्वे--

"गजोष्ट्रवृषभं नारी समारुह्याथवा पुमान् ।
योजने योजने कृच्छ्रमग्निश्चापि विनश्यति" इति ॥

 अयं च गजारोहणनिषेधो राजव्यतिरिक्तपरः । राज्ञो गजारोहणस्य बहुषु पुराणेषु दर्शनात् ।

"यस्यच्छत्रं हयश्चैव कुञ्जरारोहमृद्धिमत् ।
ऐन्द्रस्थानमुपासीत तस्मात्तं न विचारयेत्"

 इति मार्कण्डेयपुराणाच्च । चकारात्तप्तकृच्छ्रपुनःसंस्कारादिकस्य समुच्चयः ।

 खरोष्ट्रवृषभारोहणनिषेधो निरग्नेरपि ।

"यदि चेद्वै द्विजो गच्छेदारुह्योष्ट्रं खरं वृषम् ।
पुनस्तस्य क्रियाः कार्याः शिखाया वापनेन च ॥
आदौ तु विधिना त्र्यब्दं प्रायश्चित्तं समाचरेत्"

 इति स्वतन्त्रनिषेधस्य सत्त्वात् । गजारोहणनिषेधस्तु तथानिषेधाभावात्तस्य न भवति । एवं च समावर्तनोत्तरमौपासनाग्न्युत्पत्तेः प्राग्गजारोहणे विप्रस्यापि निषेधो नास्तीति सिद्धं भवति । गजारोहणे तप्तकृच्छ्रपुनःसंस्कारादिकस्य समुच्चयो न भवति । यदि चेद्वै द्विजो गच्छेदित्यनन्तरोदाहृतवचने खरोष्ट्रवृषभारोहण एव तप्तकृच्छ्रपुनःसंस्कारादिकस्य विहितत्वात् ।

 यज्ञपार्श्वे--

"नाग्निकार्यस्य वेलायां प्रवसेन्न च पर्वणि ।
न विना च निमित्तेन क्रीडाद्यर्थं तु न व्रजेत् ॥
आहिताग्निस्तु यो लोभात्प्रवासं पर्वसंधिषु ।
करोति पुनराधानं प्रायश्चित्तमृतावृतौ" इति ॥

  [१]था--

"आहिताग्निस्तु यो मोहादनुगच्छेच्छवं यदि ।
तदाऽग्नीनां विनाशः स्यादिति प्राहुर्मनीषिणः" इति ॥



५८
 
  1. क. प्रायश्चित्तदीपि(धि)तौ ।