पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७८६

पुटमेतत् सुपुष्टितम्
७७८
भट्टगोपीनाथदीक्षितविरचिता-- [अग्नित्यागप्रायश्चित्तानि]

 इदमन्यगोत्रविषयम् ।

"आहिताग्निः(ग्नेः) प्रमादाद्वा प्रेतानुगमनं यदि ।
अग्निनाशं विजानीयात्सपिण्डे तु न दोषकृत्" ॥

 इति प्रायश्चित्तकेशवीकारोक्तेः ।

"आहिताग्नेः प्रमादाच्चेच्छवानुगमनं तदा ।
अग्निनाशं विजानीयात्सगोत्रेषु न दोषकृत्" ॥

 इति प्रयोगदर्पणे स्मृतिवचनाच्च ।

वाहिनीपतावपि--"असपिण्डशवानुगमने शवस्पर्शे च पुनराधानम्" इति ।

 आहिताग्निग्रहणं साग्निकोपलक्षणमिति केचित् । एवमन्यान्यपि निमित्तानि तत्रैव द्रष्टव्यानि ।

 नदी[१]शब्दप्रवृत्तिनिमित्तमपि तत्रैवोक्तम्--

"कूलद्वयान्तरालं तु नदीशब्देन[२] नोच्यते ।
किंतु तद्देशवर्त्येव जलसंघो नदी भवेत् ॥
अष्टौ धनुःसहस्राणि न संस्रवति यज्जलम् ।
नदीशब्दाभिधेयत्वं तस्येच्छन्ति न सूरयः ॥
एकेन नामधेयेन शतयोजनगामि यत् ।
उदकं तन्नदीशब्दवाच्यमित्यपरे जगुः" इति ॥

इति संक्षेपेण पुनराधाननिमित्तानि ।

अथाग्नित्यागप्रायश्चित्तानि ।

तत्र स्मृतिः--

"नास्तिक्याद्वा प्रमादाद्वा आलस्याद्वा कथंचन ।
विच्छेदेऽग्नेः प्रकर्तव्यं प्रायश्चित्तं तु तद्यथा" इति ॥

  मनुः--

" अग्निहोत्र्यपविध्याग्निं ब्राह्मणः कामकारतः ।
चान्द्रायणं चरेन्मासं वीरहत्यासमं हि तत्" इति ॥

 अपविध्य त्यक्त्वा । मासमपविध्येत्यन्वयः ।

यत्तु हारीतः--

"संवत्सरोत्सन्नेऽग्निहोत्रे चान्द्रायणं कृत्वा पुनरादध्याद्द्वि-
वर्षोत्सन्ने सोमायनचान्द्रायणे कुर्यात्त्रिवर्षोत्सन्ने संवत्सरं
कृच्छ्रमभ्यस्य पुनरादध्यात्" इति, तदकामतो ज्ञेयम् ।

 शङ्खस्तु--" अग्न्युत्सादी संवत्सरं प्राजापत्यं चरेद्गां च दद्यात् "।



  1. च. शब्दे प्र ।
  2. क. न चोच्य ।