पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७८७

पुटमेतत् सुपुष्टितम्
[अग्नित्यागप्रायश्चित्तानि]
७७९
संस्काररत्नमाला

 इति त्रिवर्षोत्सादे गोदानमप्यधिकमाह । विष्णुरपि--

"वेदाग्न्युत्सादी त्रिषवणस्नाय्यधःशायी संवत्सरं भैक्षेण वर्तयेत्" इति ।

 व्याघ्रः--

"मासद्वयं तयोर्वह्निं त्यजेदेवं समाचरेत् ।
नास्तिक्यात्कृच्छ्रमेकं तु होमद्रव्यं ददाति च" इति ॥

 तयोः प्रमादालस्ययोः । होमद्रव्यं यावत्कालं होमो न कृतस्तावद्धोमपर्याप्तम् । तथा च भरद्वाजगृह्ये--

"यावत्कालमहोमी स्यात्तावद्द्रव्यमशेषतः ।
तद्दानं चैव विप्रेभ्यो यथा होमस्तथैव तत्" इति ॥

जातूकर्ण्योऽपि--

"अतीतकालं जुहुयादग्नौ विप्राय वा स्वयम् ।
दद्याद्वेदविदे सम्यक्कृत्वाऽऽधानं पुनर्द्विजः" इति ॥

 अत्र होम इति स्थालीपाकोपलक्षणम् । यद्यप्यग्निविच्छेदे सति होमादावधिकाराभावेन दोषाभावाद्धोमलोपप्रायश्चित्तार्थस्य[१] होमद्रव्यदानस्याप्राप्तिस्तथाऽपि व्याघ्रवचने नास्तिक्यादितिश्रवणान्नास्तिक्यतोऽग्निविच्छेद एव होमलोपप्रायश्चित्तार्थ[२]होमद्रव्यदानं कार्यं नेतरयोरिति ज्ञेयम् । एतच्च[३] होमद्रव्यदानं श्रौताग्नित्यागे न भवतीति माधवः । उभयत्यागेऽपि युक्तमिति नवीनाः ।

 मासचतुष्टयत्यागे तु व्याघ्र एवाऽऽह--

"चतुष्टये तु संपूर्णे मासानां तु हुताशनम् ।
त्यक्त्वाऽतिकृच्छ्रं कुर्वीत ततः पापात्प्रमुच्यते" इति ॥

स्मृत्यन्तरेऽपि--

"योऽग्निं त्यजति नास्तिक्यात्प्राजापत्यं चरेद्द्विजः ।
मासद्वये तथा कुर्यादतिकृच्छ्रं चतुष्टये" इति ॥

 मासचतुष्टयेऽतिकृच्छ्रमित्यर्थः । षण्मासत्यागे पराकः । अत ऊर्ध्वमब्दपर्यन्तं पयोव्रतम् ।

तथाऽऽहोशना--

"षण्मासांस्त्यजते यो वै पराकं तु समाचरेत् ।
उर्ध्वं पयोव्रतं कुर्यान्मासमेकं समाहितः ॥
वर्षपर्यन्तमेवाऽऽहुर्मुनयः शंसितव्रताः" इति ॥

 मासषट्कादूर्ध्वं यावत्संवत्सरं याज्ञवल्क्योक्तान्युपपातकसामान्यप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया योजनीयानि ।



  1. क. स्य हौम्यद्र । ख. ङ. च. स्य हौम ।
  2. क. ख. च. र्थहौम्यद्र । ड. र्थहाम ।
  3. क.ख. च. च्च हौम्यद्र । ङ.च हौम ।