पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७८८

पुटमेतत् सुपुष्टितम्
७८०
भट्टगोपीनाथदीक्षितविरचिता-- [अग्नित्यागप्रायश्चित्तानि]

संवत्सरादूर्ध्वं तु मनुः--

"ऊर्ध्वं संवत्सरादग्निं यस्त्यजेत्स पयोव्रतम् ।
द्वैमासिकं ततः कुर्यात्त्रैमासिकमथापि वा" इति ॥

 अत्र द्वैमासिकत्रैमासिकयोः कालाल्पत्वमहत्त्वापेक्षया विकल्पः । एतानि च सर्वाणि प्रायश्चित्तानि नास्तिक्यादग्निपरित्यागे । यदा तु प्रमादात्त्यजति तदा भरद्वाजगृह्ये विशेषः--

"प्राणायामशतमा त्रिरात्रादुपवासः स्यादा विंशतिरात्रादत ऊर्ध्वमा
षष्टिरात्रात्तिस्रो रात्रीरुपवसेदत ऊर्ध्वमा संवत्सरात्प्राजापत्यं चरेदत
ऊर्ध्वं कालबहुत्वे दोषबहुत्वम्" इति ।

 इदमेवाकामतो गृह्याग्नित्याग इत्यपरार्के ।

अत्रैव विषये स्कान्दे--

"हुताशनं तु यो विप्रः प्रमादात्त्यजति प्रभो ।
प्राणायामशतं कुर्यादुपवासमथापि वा" इति ॥

कूर्मपुराणे--

"षष्टिरात्रिं त्यजेदग्निं प्रमादाच्छृणु मे प्रभो ।
उपवासं ततः कुर्यात्प्राजापत्यं ततः परम्" इति ॥

 तत इत्यनेन त्रिरात्रमुच्यते । मासद्वयमग्नित्यागे त्रिरात्रमुपवासः संवत्सरमग्नित्यागे प्राजापत्यमिति । स्कान्दे तु द्वादशाह्वातिक्रमे त्र्यहमुपवासः । मासातिक्रमे द्वादशाहमुपवासः । संवत्सरातिक्रमे मासमुपवासः पयोभक्षणं वा कुश्माण्डीभिर्होमः क्रमेणोभयं वेत्युक्तम् । इदं च कामतः । उपवासाशक्तौ मासं पयोभक्षणम् । संवत्सरानन्तरमधिककालातिक्रम उभयमिति मदनपारिजा[]ते ।

 आलस्यादग्निपरित्यागे स्मृत्यन्तरम्--

"आलस्येन यदा वह्निं द्वादशाहात्परं तदा ।
उपवासत्रयं कुर्यात्पश्चान्मासात्तथैव च ॥
उपवासो द्वादशाहं षण्मासातिक्रमे तथा ।
मासं पयोव्रतं कुर्याद्वत्सरातिक्रमे तथा ॥
मासोपवासः कर्तव्यः पयो वा भक्षयेत्तथा ।
कूश्माण्डहोमः कर्तव्यः क्रमेणोभयमेव वा ॥
द्विमासं वा त्रिमासं वा कालाल्पत्वमहत्त्वतः ।
पयोव्रतं चात ऊर्ध्वं बहुकालात्यये सति ॥
प्रायश्चित्तबहुत्वं स्यादेवमा वत्सरत्रयात् ।



  1. क. जातः । आलस्ये ।