श्रौतेषु स्मार्तेषु चैतासामेव संप्रत्ययः सिद्धो भवति । ननु भूर्भुवः सुवरिति व्याहृतय इत्येतेनैव सिद्धम् । न सिध्यति । तेनाऽऽधान एवेष्टपरिग्रहः कृतः स्यादिति । कर्षप्रमाणमाज्यं स्यादिति वचनात्सर्वाहुतिषु कर्ममात्रमाज्यं ज्ञेयम् ।
अथ कर्मसमृद्धिसंपादकमुत्तरं तन्त्रम् । तत्र गृह्यम्--
इमं मे वरुण तत्त्वा यामि त्वं नो अग्ने स त्वं नो अग्ने त्वमग्ने अयास्य० भेष स्वाहा । प्रजापत इत्येषा । यदस्य कर्मणोऽत्य० समर्धयित्रे स्वाहेत्युत्तरार्धपूर्वार्धेऽस सक्तामितराभिराहुतिभिर्जुहोत्यत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वति पुरस्तात्स्विष्टकृतश्चित्तं च स्वाहा चित्तिश्च स्वाहेति जयान्जुहोति चित्ताय स्वाहा चित्तये स्वाहेति वाऽग्निर्भूतानामधिपतिः समावत्वित्यभ्यातानानस्मिन्ब्रह्मन्नस्मिन्क्षत्र इत्यभ्यातानेष्वनुषजति पितरः पितामहा इति प्राचीनावीती जुहोत्युपतिष्ठते वर्ताषाडृतधामेति राष्ट्रभृतः पर्यायमनुद्रुत्य तस्मै स्वाहेति पूर्वामाहुतिं जुहोति ताभ्यः स्वाहेत्युत्तराम्" इति ।
प्राजापत्यायामेषेति वचनं यत्र यत्र सामान्यतः प्राजापत्या विहिता भवति तत्रैषैव ज्ञेयेत्येतदर्थम् । केचित्तु मनसा होमार्थं मन्यन्ते । तस्मान्मनसा प्रजापतये जुह्वतीति दर्शनात् । तन्न । एतस्य दर्शनस्याऽऽघारविषयत्वात् । तस्माद्वाचैव होतव्यम् । यदस्येत्यनेन स्विष्टकृदाहुतिमग्नेरुत्तरार्धपूर्वार्धे जुहोति । इतराभिराहुतिभिरसंसक्तामिति वचनादतिहायेतरा आहुतीर्होतव्यम् । असंसक्ताऽसं[१]सृष्टा । अत्रास्मिन्कर्मणि पुरस्तात्स्विष्टकृतः । एक आचार्याः । जयाश्चाभ्यातानाश्च जयाभ्यातानास्तांश्च राष्ट्रभृतश्च । इतिशब्दः समुच्चयार्थः । प्रकारार्थ इत्येके । जयानामभ्यातानानां राष्ट्रभृतामनन्तरमुपहोमत्वेनोपदेशाज्जयादीञ्जुह्वति प्रधानाहुतिसमीपे जुह्वति । अत्रेतिवचनं वेदाध्ययनार्थत्वेन मुख्य उपनयन एव यथा स्यान्न प्रायश्चित्तार्थोपनयन इत्येतदर्थम् । ननु प्रजापत इत्येषेत्यनन्तरमेव ([२]चित्तं च स्वाहा चित्तिश्च स्वाहेत्यारभ्य ताभ्यः स्वाहेत्युत्तरामित्यन्तं सूत्रं पठित्वा यदस्य कर्मणोऽत्यरी
- ↑ क. संस्पृष्टा ।
- ↑ धनुश्चिह्नान्तर्गतस्थाने क. ख. पुस्तकयोः--"अत्रैके जयाभ्यातानान्राष्ट्रभृत इत्युपजुह्वतीत्येतावदेव सूत्रं कर्तव्यम् । स्विष्टकृतः पुरस्तादनुष्ठान तु विधानक्रमादेव सिध्यतीति किमर्थं गुरुसूत्रकरणमिति चेन्न । येन कर्मणेर्त्सोदिति वचनात्कर्मसमृद्ध्यर्थं श्रौते गार्ह्ये स्मार्ते च कर्मणि यदि होमः क्रियते तत्र पुरस्तात्स्विष्टकृत एव भवेदितिज्ञापनार्थत्वात्" इति वर्तते ।