पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७९५

पुटमेतत् सुपुष्टितम्
[पुनःसंधानप्रयोगः]
७८७
संस्काररत्नमाला

पौर्णमास्यामापूर्यमाणपक्षे वा पुण्ये नक्षत्रे" इति । आपूर्यमाणः पक्षः पूर्वः पक्षः । आपूर्यमाणपक्ष इत्यनेन पूर्णमासग्रहणे पुनरुपादानमतिशयार्थं तत्प्रतिपद्ग्रहणार्थं च । आपूर्यमाणपक्ष इत्यनेन पुण्ये नक्षत्र इति समुच्चीयते । वाशब्दस्यात्रानन्वयात् । आषाढे मासि पुनःसंधानं न कर्तव्यम् ।

"आदधीतानलान्विप्रो नाऽऽषाढे मासि कर्हिचित् ।
भाद्रे मासि न राजन्यो नाऽऽश्विनेऽप्यूरुजः क्वचित्" इति कात्यायनोक्तेः ।

 ऊरुजो वैश्यः । विस्तरस्तु श्रौता[१]ज्ज्ञेयः । विच्छिन्नसंधानस्य नैमित्तिकत्वान्निमित्तानन्तरमधिमासेऽपि करणमुचितं नातिपन्नस्य जातेष्टिवत् ।

 अमुनैवाऽऽशयेन दीपिकायामुक्तम्--

"यन्नैमित्तिकमग्निनष्ट्यनुगताग्न्याधानमर्चासु वा
संस्कारादिविलोपने सति पुनः प्रोक्तं प्रतिष्ठादिकम् ।
दाहेष्ट्यादि च यत्स्वकालविगमे गौणं विधानात्परं
लुप्येताधिकमासि तद्वितनुयात्" इति ॥

 अथवा विवाहोक्तान्येव नक्षत्रादीनि ग्राह्याणि । अस्मिन्पक्षे विवाहहोमीयप्रधानाज्याहुतिषट्कं लाजाहुतित्रयं चायाश्चेत्याहुत्योपवासेन वा समुच्चितं द्रष्टव्यम् । न्यायतोऽप्येवम् । यदि तु सर्वथा पुत्राद्यभावस्तदा मन्त्रलिङ्गविरोधादाज्याहुतिषट्काभाव एव । लाजाहुतित्रयमात्रं कर्तव्यम् । पूर्ववदाहुत्या उपवासस्य वा समुच्चयोऽत्राप्यस्त्येव । वस्तुतस्तु शुभकर्मानुकूलानि सामान्यनक्षत्रादीन्यत्र ज्ञेयानि । अस्मिन्कल्पे विवाहहोमीयाहुतिषट्कं लाजाहुतित्रयं च न । असंकरात्सर्वत्रेदमेव युक्तम् । सर्वपक्षेषु निमित्तानन्तरकरणपक्षे न नक्षत्राद्यपेक्षेति द्रष्टव्यम् ।

अथ पुनःसंधानप्रयोगः ।

 कर्ताऽऽदौ होमसामग्रीं स्थालीपाकार्थं चरुस्थाल्यादिकम[२]ग्न्यायतनस्य समन्तात्परिश्रयणार्था[३]नि च्छदींषि, उदुम्बरशाखाः प्लक्षशाखा वा सिकतोषाखूत्करवल्मीकवपासूदवराहविहतशर्कराहिरण्यशकलरजतशकलपुष्करपर्णाश्वस्थोदुम्बरपलाशशमीविकङ्कतपल्लवानशनिहतवृक्षकाष्ठं चोपकल्पयेत् । सिकताः प्रसिद्धाः । ऊषाः(षः) क्षारमृत् । आखूत्करं वन्याऽऽखूत्कीर्णा मृत् । अभाव उत्कीर्णा ग्राम्या । वल्मीकशब्देन व[४]रोलम् । तस्य वपा वपाकारा मृदुच्यते । सूदो हृदमृत् । तदभावे कुलीरमृत् । वराहविहत आरण्यवराहोत्कीर्णा मृत् ।



  1. क. ताग्निनाशे । वि ।
  2. क. मन्यान्याय ।
  3. ग. ङ. च. र्थादीनि ।
  4. क. वारोळम् ।