पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७९६

पुटमेतत् सुपुष्टितम्
७८८
भट्टगोपीनाथदीक्षितविरचिता-- [पुनःसंधानप्रयोगः]

शर्कराः क्षुद्रपाषाणाः । भाषया काङ्कर इति प्रसिद्धाः । शकलस्वरूपं तु स्मृतौ[१]--"यवार्धं त्रुटिरित्युक्ता द्वे त्रुटी शकलं स्मृतम्" इति ॥

 पुष्करपर्णं कमलिनीपर्णम् । अश्वत्थादयश्चत्वारः प्रसिद्धाः । विकङ्कतः सकण्टकवृक्षः। भाषया सुतवी इति प्रसिद्धः । अशनिहतो विद्युद्धतः। अभावे वातहतः । एवं सामग्रीं संभारांश्च परिकल्प्य समिन्नाशादिनिमित्तानन्तरं रात्रौ चेत्समिन्नाशादिनिमित्तं तदा द्वितीयदिने प्रातस्तस्यातिक्रमे शुभे दिने कृत्तिकारोहिणीमृर्गशीर्षपुनर्वसू(सु)पूर्वा(र्व)फल्गुन्युत्तरा(र)फल्गुनीहस्तचित्राविशाखानूराधाश्रवणोत्तरा(र)प्रोष्ठपदान्यतम आधानोक्तनक्षत्रे शुभकर्मानुकूलसामान्यनक्षत्रान्यतमनक्षत्रे वा पत्न्या सह प्राणानायम्य देशकालौ संकीर्त्य मम नास्तिक्यादेतावत्कालपर्यन्तं गृह्याग्निविच्छेदजनितप्रत्यवायपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थमेतावत्प्रायश्चित्तमहमाचरिष्य इति संकल्पं कुर्यात् । प्रमादेन विच्छेदे तु मम प्रमादादेतावत्कालपर्यन्तमिति । ममाऽऽलस्यादेतावत्पर्यन्तमित्यालस्येन विच्छेदे । एवं संकल्प्याग्निविच्छेदकालगणनया प्रायश्चित्तं दंपती सह कुरुतः । अशक्तौ प्रत्याम्नायद्वारा ।

 तत्र नास्तिक्याद्द्वादशाहपर्यन्तं पराकः । ततोऽब्दपर्यन्तं मासं पयोव्रतम् । अब्दे पूर्णे द्वैमासिकं त्रैमासिकं वा व्रतम् । ततः प्रतिवर्षमेतस्यैवाऽऽवृत्तिरिति ।

 प्रमादात्त्रिरात्रमग्निविच्छेदे प्राणायामशतम् । द्वाविंशतिरात्रपर्यन्तमेकदिनमुपवासः । मासद्वयपर्यन्तं त्रिरात्रमुपवासः । अब्दे प्राजापत्य इति ।

 आलस्याद्द्वादशाहं विच्छेदे तु त्र्यहमुपवासः । मासातिक्रमे द्वादशाहमुपवासः । षण्मासातिक्रमे मासं पयोव्रतम् । संवत्सरातिक्रमे मासमुपवासः पयोभक्षणं कूश्माण्डहोमो वा, समुच्चयो वैतेषाम् ।

 प्रयोगपारिजाते त्वत्राधिकमुक्तम्--द्वादशाहपर्यन्तं त्र्यहमुपवासः । मासपर्यन्तं द्वादशाहमुपवासः । अब्दपर्यन्तं[२] मासं पयोव्र[३]तम् । द्विवर्षपर्यन्तं मासं पयोव्रतं चान्द्रायणं च । अब्दपर्यन्तं चान्द्रायणं [४]सोमायनं च । तदूर्ध्वमब्दकृच्छ्रं धनिनो गोदानं चेति ।

 नास्तिक्यादग्निविच्छेदवशेन लुप्तानां सायंप्रातर्होमानां दर्शपूर्णमासस्था



  1. च. तौ--यावा ।
  2. ग. न्तं चान्द्रायणं सो ।
  3. क. व्रतं चा
  4. अत्र क. पुस्तके टिप्पण्याम् "गोक्षीरं सप्तरात्र तु पिबेत्स्तनचतुष्टयात् । स्तनत्रयात्सप्तरात्रं सप्तरात्रं स्तनद्वयात् । स्तनत्तथैव षड्रात्रं त्रिरात्रं वायुभुग्भवेत् । एतत्सोमायनं नाम व्रतं कल्मषनाशनमिति प्रायश्चित्तेन्दुशेखर उक्तम्" इति ।