रिचमित्यारभ्य राष्ट्रभृत इत्युपजुह्वतीत्येतदन्तं सूत्रमनन्तरं कर्तव्यम् । एवं च पुरस्तात्स्विष्टकृत इति वचनं न कर्तव्यमित्येतादृशं लाघवं परित्यज्य गौरवाङ्गीकरणं पुरस्तात्स्विष्टकृत एव उपहोमाः स्विष्टकृतमुत्तरं वेतिप्रदेशविकल्पो नात्र किं त्वनुष्ठानविकल्प एवेतिबोधनार्थम् । पुरस्तात्स्विष्टकृत इतिवचनं स्विष्टकृदुत्तरकालताव्यावृत्त्यर्थम् ।) अथ किमर्थं जयाभ्यातानानामेव पृथक्समासः, न राष्ट्रभृद्भिः सहेति, राष्ट्रभृतामपि सन्ति सहचारिण इति ख्यापनार्थम् । के ते । यद्देवा देवहेडनमित्यच्छिद्रकाण्डपठितमन्त्रकरणका होमास्तेषां साक्षादवचनाद्विकल्पः । विदधे च विकल्पेन यद्देवा देवहेडनमित्यनुवाकेन होमं चतुर्थं बौधायनः । जयादीनां प्रत्येकमनुक्रमणं ज्ञानार्थं विशेषविधानार्थं च । चित्तं च स्वाहा चित्तिश्च स्वाहेति यथापाठं त्रयोदश जयाञ्जुहोति । देवासुरा इत्यादि ब्राह्मणम् । चित्ताय स्वाहा चित्तये स्वाहेत्येवं चतुर्थ्यन्तैर्वा द्वादशभिर्जुहुयात् । अविकृतैव त्रयोदशी । एवमपि शाखान्तरेऽस्ति पाठ इत्यवगन्तव्यम् । अग्निरित्यष्टादशाभ्यातानाञ्जुहोति । अस्मिन्ब्रह्मन्नित्यादि देवहूत्यामित्यन्तमभ्यातानेष्वनुषजति । पितर इत्येतामाहुतिं प्राचीनावीती जुहोति उपतिष्ठते वाऽनेन मन्त्रेण प्राचीनावीती पितॄन् । अग्निमित्येके । तन्न, लिङ्गविरोधात् । ऋताषाडिति राष्ट्रभृतो जुहोति । द्वादशैते मन्त्रास्तेषु सप्तमोत्तमौ निरनुषङ्गावेकाहुतिकौ, अवशिष्टाः सानुषङ्गास्तेषु ये सानुषङ्गास्तानुक्त्वा तस्मै स्वाहेति पूर्वामाहुतिं जुहोति ताभ्यः स्वाहेत्युत्तरामाहुतिमित्यर्थः । अत्र त्रिविधेऽपि राष्ट्रभृन्मन्त्राणां विभागे दश पर्यायाः सप्तमोत्तमौ केवलाविति द्वाविंशतिमन्त्राः । तत्र ऋताषाडिति यथापाठमारभ्य तस्मै स्वाहेत्यन्ते पूर्वाहुतिः केवलं ताभ्यः स्वाहेत्यपराहुतिरित्येकः पक्षः । यथा, ऋताषाडृतधामाऽग्निर्गन्धर्वस्तस्यौषधयोऽप्सरस ऊर्जो नाम स इदं ब्रह्म क्षत्त्रं पातु ता इदं ब्रह्म क्षत्त्रं पान्तु तस्मै स्वाहा ताभ्यः स्वाहेति । एवमुत्तरत्र । ऋताषाडिति यथापाठमारभ्य तस्मै स्वाहेत्यन्ते पूर्वाहुतिः पुनर्ऋताषाडिति यथापाठमारभ्य ताभ्यः स्वाहेत्यपराहुतिरिति द्वितीयः पक्षः । यथा, ऋताषाडृतधामा० क्षत्त्रं पान्तु तस्मै स्वाहा । ऋताषाडृतधामा० क्षत्त्रं पान्तु ताभ्यः स्वाहेति । एवमुत्तरत्र । तृतीयः पक्षोऽग्निमुखप्रयोगे वक्ष्यते । सर्वोऽपि होमो यज्ञपुरुषस्य जिह्वायामेव कार्यः । अन्यथाकरणे दोषश्रवणात् ।
तदाह संग्रहकारः--
"यत्र काष्ठं तत्र कर्णौ हुनेच्चेद्व्याधिकृन्नरः । |