सूत्रोक्तत्वात् । पाणिग्रहणादिरित्येतत्खण्डं तु क्षेपकमव्याख्यानात् । अनुगते भार्यायाः पत्युर्वेत्येतत्सूत्रस्थभाष्यलिङ्गात् । तस्यौपासनेनाऽऽहिताग्नि[१]त्वं पार्वणेन चरुणा दर्शपूर्णमासयाजित्वं चेति कश्चिद्वक्ष्यत्याचार्य इत्याधानप्रकरणे कश्चिदिति वैजयन्तीकारोक्तेश्च । स चोपवासो दिवाकर्मत्वादासायं द्रष्टव्यः[२] । आहुतिस्त्वयाश्चाग्न इति ।
इति संस्काररत्नमालायां पुनःसंधानम् ।
इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां षोडशं प्रकरणम् ॥ १६ ॥
अथ सप्तदशं प्रकरणम् ।
अथ प्रयाणविधिः ।
तत्रेदं गृह्यम्--
"यदि प्रयायाद्व्याख्यातमात्मन्नरण्योर्वा समारोपण |
अस्यार्थः--यदि प्रयायात्प्रयाणं कुर्यात्तदा व्याख्यातम् "ऋते[३] गृहस्य प्रवासं व्याख्यास्यामः" इतिखण्डस्थेनायं ते योनिरित्यारभ्य लौकिकमग्निमाहृत्य तस्मिन्नुपावरोहयत इत्यन्तेन सूत्रेणोक्तम् । आत्मन्नरण्योर्वा समारोपणं कुर्यादित्यर्थः । यदि प्रयायात्तस्य व्याख्यातो विधिरित्येतावदुच्यमाने वास्तोष्पतिहोमावसितहोमावपि प्राप्नुतस्तन्निवृत्त्यर्थमेवं सूत्रकरणम् । अग्निना भार्यया च सह गमनं प्रयाणं ताभ्यां विनाऽन्यत्र ग्रामान्तर एकरात्रावमो वासः प्रवासः । आत्मन्नात्मनीत्यर्थः । सुपां सुलुगिति सप्तम्या लुक् । "अथो खल्वाहुर्यदरण्योः समारूढो नश्येत्" इत्यादिना श्रुतावात्मसमारोपस्यैव संस्तवादात्मसमारोप उक्तः । अरण्योर्यथा समारोपकल्पस्तेन कल्पेनेत्यर्थः ।