पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/८०२

पुटमेतत् सुपुष्टितम्
७९४
भट्टगोपीनाथदीक्षितविरचिता-- [साग्निकस्य प्रयाणविधिः]

प्रायश्चित्तमिति प्रदीपाच्च । अत्र मैथुनमज्जनग्रहणं पतितादिसंभाषणोपलक्षणं मण्डनेनैकवाक्यत्वाय । आत्मसमारोपणकौमुद्यामापस्तम्बः--

"यद्यग्न्यारूढा समिदप्सु निमज्जयेद्यद्यात्मरूढाग्निरप्सु निमज्जेच्छिरो
दक्षिणं पाणिं वा निमज्जयेत्पुनराधानकारणं भवतीत्येके" इति ।

 मुखे समारोपणपक्षे शिरसो निमज्जननिषेधः । हस्ते समारोपणपक्षे हस्तनिमज्जनस्य निषेध इति व्यवस्था द्रष्टव्या ।

 प्रायश्चित्तसार आत्मसमारोपं प्रकृत्य--

"जले निमज्ज्य न स्नायान्नोपेयाच्च स्त्रियं तथा ।
कृत्वा मूत्रपुरीषे तु चिरं नाऽऽसीत चाशुचिः" इति ॥

बौधायनः--

"अथ यद्यात्मसमारूढेष्वव्रत्यं चरेदरणिनाशोक्तदोषो वा भवे-
दग्न्याधेयमरणिविना[१]शेन विनाश उक्तः" इति ।

 अस्यायमभिप्रायः--अरण्योरुपघाते तयोरुत्सर्ग एवोक्तस्तद्द्वाराऽग्नीनां नाशस्तत्र समारूढत्वात् । तथा पाण्योर[२]प्यरणीसाम्यदृष्ट्याऽरणीनाशोक्तदोषो वा भवेदग्न्याधेयमित्युक्तम् । न त्वन्तरात्मनि दोषसंभवः । तत्र तु यदि बुद्धिपूर्वमभक्ष्यभक्षणादिरूपमव्रत्याचरणं कुर्यात्तदाऽऽत्मनो दोषः पुनरुपनयनादिकारणरूपः स्यात् । तत्र समारूढत्वादग्नीनामपि विनाशस्तदैव पुनराधानमिति । शरीरस्य त्वायतनस्थानापन्नत्वाच्छूद्रादिस्पर्शेऽपि स्नानादिनैव शुद्धिः । अन्यथा गायत्र्यादिमन्त्राणामपि नाशः स्यात् । आत्मनः सर्वव्यापित्वे सत्यपि स्था[३]नविशेष एव समारोपितेऽग्नौ सप्तभिः पञ्चभिस्त्रिभिर्वा वेष्टनैररणी समिधं वा संवेष्ट्य गच्छेत् ।

 उक्तं चैतद्यज्ञपार्श्वे--

"सप्तभिः पञ्चभिर्वाऽपि त्रिभिर्वा वेष्टनैर्युते ।
अरणी न प्रदुष्येते पतितादिसमागमे" इति ॥

 अरणीवत्समि[४]धोऽपि ज्ञेयम् । वेष्टनद्रव्याणि तु शौनकेनोक्तानि--

"अजिनं कम्बलं दर्भा गोकेशाः शाणमेव च ।
भूर्जपत्रं तालपत्रं सप्तधा वेष्टनं स्मृतम्" इति[५]

 पञ्चपक्षे भूर्जपत्रतालपत्रयोर्निवृत्तिः । त्रित्वपक्षे गोकेशशाणभूर्जपत्रतालपत्राणां निवृत्तिरिति ज्ञेयम् ।



  1. च. नाशो न ।
  2. क. रर ।
  3. क. स्थानोपविष्ट । ग. स्नानविशेष ।
  4. ख. क. मिध्येव ज्ञे । ग. मिधेऽपि ।
  5. क.ख. ति । अथ ।