अथ प्रयोगः ।
प्रयास्यन्पूर्वं स्वीकृते अरणी गृहीत्वाऽयं त इत्यस्याग्नि[१]र्जा[२]तवेदा अग्निस्त्रिष्टुप् । समारोपणे विनियोगः । 'ॐ अयं ते योनि० रयिम्' इति पत्न्यन्वारब्धस्तयोरग्निं समारोपयति । ततो निवासस्थले शुद्धदेशेऽरणी निधायाग्न्यायतनं संपाद्य, उपावरोहेत्यस्य विश्वे देवा जातवे[३]दा अनिस्त्रिष्टुप् । उपावरोहणे विनियोगः । 'ॐ उपावरोह जातवे० दुरोणे' इति पत्न्यन्वारब्धः प्रागस्तमयान्मन्थनेनोपावरोह्य पुष्टं कृत्वाऽऽयतनसंस्कारं कृत्वा तमग्निं स्थापयेत् । मन्थनकालेऽन्येन मन्थने क्रियमाणे यावदग्नेर्जन्म तावदरणी संस्पृशन्नास्ते । यद्युत्पादनप्रयत्नो निष्फलस्तदा पुनर्मन्त्रमुक्त्वा यत्नः कार्यः । मन्त्रो यजमानस्यैव ।
आत्मसमारोपे तु--या ते अग्ने यज्ञियेत्यस्य विश्वे देवा अग्निस्त्रिष्टुप् । आत्मसमारोपे विनियोगः । 'ॐ या ते अग्ने यज्ञिया तनू० क्षय एहि' इत्यात्मनि समारोपयति ।
ततो निवासस्थले प्रागस्तमयाच्छुद्धे देशेऽरणी संस्थाप्य तयोरुपावरोह जातवेद इत्युपावरोहति । आत्मसमारोपो नाम दक्षिणहस्तस्याग्नौ प्रतपनमिति केचित् । हस्तद्वयप्रतापनमित्यन्ये । तूष्णीमेव प्रताप्य मन्त्रेण तमूष्माणं मुखे गृह्णीयात् । मन्त्रेण प्रताप्य तूष्णीं मुखे गृह्णीयाद्वेत्यपरे । आत्मसमारोप उपावरोहणं नाम नासिकया श्वासमोचनम् । एतच्चोष्मणो मुखे ग्रहणमिति पक्षे । हस्तप्रतपनमात्रपक्षे तु मन्त्रेण संस्पर्शनमिति ज्ञेयम् । अरण्योर्यदि न स्वीकारस्तदा श्रोत्रियगृहाल्लौकिकमग्निमाहृत्य संस्कृतायतने संस्थाप्याऽऽत्मारूढाग्नेस्तेनैव मन्त्रेण तत्रोपावरोहणं कुर्यात् ।
समित्समारोपे तु खादिरपलाशोदुम्बराश्वत्थान्यतमवृक्षस्य समिधं गृहीत्वाऽयं त इति तस्यां समारोप्य यत्र निवसेत्तत्र शुद्धे देशे श्रोत्रियागारादाहृतं लौकिकाग्निं संस्कृतायतने संस्थाप्य प्रज्वाल्य, आ जुह्वान उद्बुध्यस्वेति द्वाभ्यां समारूढाग्निकां समिधं तस्मिन्नाधाय नित्यहोमं कुर्यात् ।
व्याधिते प्रोषिते वा यजमाने समारोपार्थमृत्विजं वृत्वा तेन कारणीयः । तदलाभे भार्ययाऽपि । यजमानस्य स्वसंस्कारव्यतिरिक्तकर्मसु भवेदेव प्रतिनिधिरिति स्थापितत्वात् । तस्यामप्ययोग्यायां पुत्रादिना कार्यः । आत्मस