मारोपो यजमानेन पत्न्या वा कार्यः, न तु ऋत्विक्पुत्रादिभिः । आपदि प्रयाणप्राप्तावसंनिहिते च यजमान ऋत्विजाऽरणीसमारोपः कार्यः । भार्ययाऽऽत्मसमारोपो वेत्यादि ज्ञेयम् । अरणीसमित्समारोपे--अयं ते योनिरित्ययं मन्त्रो भ्रमान्न पठितोऽन्यथा पठितो वा तदा न समारोपसिद्धिः । समारोपभ्रमेणोपेक्षितस्याग्नेरनुगमनेऽनुगतप्रायश्चित्तविधिनैवाग्निरुत्पाद्यो नावरोपविधिना । अन्यथोत्पादने पुनःसंधानमेव । अग्न्यनुगमनिमित्तकमग्निसंधानं प्रोषिते यजमाने पत्न्यर्त्विजा कारणीयं द्वादशाहात्प्राक् । ऊर्ध्वं तु यजमानागमनोत्तरं पुनः संधानमेव । तत्र संकल्पत्यागौ पत्न्यैव कार्यौ । समिन्नाशादिनिमित्तकमग्निसंधानमपि यजमानागमनोत्तरमेव । यजमाने प्रोषिते पत्न्यामृतुमत्यामप्यनुगतेऽग्नावनुगतप्रायश्चित्तार्थमग्निस्थापनादिप्रायश्चित्तमृत्विजा कार्यमेव । आशौचे समारोपावरोपौ न भवतोऽशुचित्वात् । न चर्त्विजा कारणीयावेताविति वाच्यं, मन्त्रलिङ्गात् । स्वपरसूत्रतद्व्याख्यानेभ्यश्च स्वस्यैव क[१]र्तृतायाः क्लृप्तत्वात् ।
यदि तु समारूढाग्नेः पर्वण्याशौचं प्राप्नोति तदा पुनःसंधानमेव । यदि भ्रान्त्या तस्याग्नेः पुनःसंधानमकृत्वैव तत्र संस्काराङ्गहोमादि करोति तदा स्मरणोत्तरं सर्वप्रायश्चित्तं जुहुयान्न पुनः प्रधानक्रिया । ग्रामसीमातिक्रमसमये नद्यतिक्रमसमये च दंपती अरण्यन्वारम्भं कुरुतः । अकरणेऽग्निर्लौकिकः । नानासीमास्वपि प्रथमान्त्ययोरिति केचित् ।
आपदि यजमानासंनिधौ भार्यैवान्वारभते । अनेकासु भार्यासु सतीषु ज्येष्ठाया एवान्वारम्भ आवश्यकः,
"ज्येष्ठाऽन्वारभते वह्निं बहुभार्यस्य नेतराः" इति संग्रहोक्तेः । |
नान्वारम्भः पत्न्या आत्मसमारोपे । अप्रोषितेऽपि यजमाने होमकाले पत्न्या ग्रामान्तरगमने नद्यतिक्रमे च लौकिकत्वमेवाग्नेरिति ज्ञेयम् ।
इति प्रयाणविधिः ।
अथ प्रवासविधिः ।
तत्रेदं सूत्रम्--ऋते गृहस्य प्रवासं व्याख्यास्यामोऽग्नीन्समाधेहीत्यादि भार्यां समीक्षत इत्यन्तम् । अत्र यावदुपयुक्तं सूत्रं तावत एव व्याख्या प्रदर्श्यते । मा प्रगामेति मन्त्रद्वयमुक्त्वा विहारदेशमागच्छति । अग्नीनां सकाशे[२] समीपे वाचं यच्छति । असकाशे यस्मिन्प्रदेशेऽग्नीनां छदींष्यदृश्यानि भवन्ति तत्र गत्वा वाचं विसृजते । व्रतकाले व्रताचरणं कर्तव्यमित्याह--व्रतकालेषु