पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/८०६

पुटमेतत् सुपुष्टितम्
७९८
भट्टगोपीनाथदीक्षितविरचिता-- [साग्निकस्य प्रवासविधिः]

 प्रवासनिमित्तेन प्रवत्स्यामीति संकल्प्य प्रवासं यदि न करोति तदाऽप्युपस्थानं कार्यमेव ।

तदाह स एव--

"उपस्थानं हि संकल्प्य प्राक्प्रवासान्निवर्तते ।
उपस्थातव्यमेवेति प्रक्रमन्यायिनो विदुः ॥
आगतोपस्थितिस्तत्रापीष्टा कौषीतकिश्रुतेः" इति ।

 यदि राजादिपुरुषा उपस्थानायावसरं न दद्युस्तदेहैवेत्युपस्थानं कृत्वा गन्तव्यम् ।

तथा च स एव--

"बलाद्राजादिपुरुषा यजमानं नयन्ति चेत् ।
न प्रयच्छन्त्युपस्थानावसरं क्रूरचेष्टिताः ॥
तदा कुर्यादुपस्थानं तद्देशगत एव सन् ।
इहैवेत्यादिमन्त्रेण सर्वाग्नीनां च तन्त्रतः" इति ॥

 गृह्ये तु--इहैव सन्तत्र सन्तं त्वेत्ययमेव मन्त्रो ग्राह्यः । न त्विहैव सन्तत्र सतो वो अग्नय इति । अग्नेरेकत्वात् ।

 यदि तु यत्र कुत्रापि स्थितस्य प्रवास आपद्येत तदाऽप्येष एव विधिः ।

तथा च मण्डनः--

"आगमिष्यामि चाद्यैवेत्यनुपस्थाय निर्गतः ।
दैवात्तत्र स्थितः कुर्यादिदमेवेति केचन" इति ।

 यदि तु यत्र कुत्रापि स्थितस्य प्रवासप्राप्तौ विस्मृत्य विधिर्न कृतस्तत्राप्येष एव कार्यो विधिः ।

तथा च मण्डनः--"विस्मृतेऽपि यदा यातस्तत्राप्येष विधिर्भवेत्" इति ।

 बुद्धिपूर्वं दर्पादनुपस्थाय निर्गमे स एवाऽऽह--

"बुद्धिपूर्वं यदा दर्पादनुपस्थाय निर्गतः ।
अनाज्ञातजपं कृत्वा तत्राप्येष विधिर्भवेत्" इति ॥

 एषोऽनन्तरोक्तः, इहैवेत्युपस्थानरूपः ।

 अत्र मनस्वतीहोमोऽपि भरद्वाजसूत्रव्याख्यातृभिरुक्तः--

"यद्युपस्थानमकृत्वा प्रवासं करोति तदा मनस्वतीं जुहोति" इति ।

 आगतोपस्थितेरकरणेऽपीदमेव प्रायश्चित्तं द्रष्टव्यम् । इहेत्युपस्थानपक्षे मा प्रगामेत्यस्य लोपः ।

 वाग्यमस्य विकल्पश्चोक्तो मण्डनेन--

"इहेत्युपस्थानपक्षे मा प्रगामेति लुप्यते ।
वाग्यमस्य न लोपोऽत्र भाष्यकारेण दर्शितः ॥