पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/८०७

पुटमेतत् सुपुष्टितम्
[साग्निकस्य प्रवासविधिः]
७९९
संस्काररत्नमाला

अन्ये त्वाहुर्मन्त्रलोपो मौनलोपोपलक्षणम् ।
इहेतिपक्षे नास्त्यन्यदिति नारायणोऽब्रवीत्" इति ॥

 इहैवेत्युपस्थाय गत ऋतुनिमित्तकमुपस्थानमभयंकरेणैव कार्यमिति केचित् । इहैवेत्यनेनैवेत्यन्ये । आगतोपस्थितिर्नेहैवेत्यनेन । तथा च मण्डनः--

"इहैवेति गतस्यापि नाऽऽगतस्य तदिष्यते" इति ।

 अत्र प्रत्येत्योपस्थानं त्वभयंकरेणैव ।

 दशरात्राधिकप्रवासे मनस्वतीहोम उक्तः सूत्रे--

"मनोज्योतिर्जुषतामित्यध्वर्युराहुतिं जुहोति यदि दशमीमतिप्रवसति" इति ।

 मण्डनोऽपि--"प्रोष्य भूयो दशरात्राज्जुहोतीत्याश्वलायनः" इति ।

 गृहाभिगमनादिकं मनस्वतीहोमोत्तरमेव कार्यम् ।

तथा च मण्डनः--"हुते मनस्वतीहोमे गृहाभिगमनादिकम्" इति ।

 अयं मनस्वतीहोमः प्रादुष्कृतोपस्थानान्तर्गते(त इ )ति नाभयंकरोपस्थाने नापीहेत्युपस्थान इति भाष्यकृत् । अन्ये तु होमार्थमुद्धृते मनस्वतीमिच्छन्ति । सूत्रक्रमोऽप्येतादृश एव । संवत्सरातिप्रवासे तु पवित्रेष्टिः ।

तथा च मण्डनः--

"संवत्सरमतिप्रोष्य पवित्रेष्ट्या यजेदिति ।
बौधायनादयः प्राहुर्नेच्छन्तीष्टिमथापरे ॥
इष्टिपक्षं यत्र कुर्यात्तत्र हुत्वा मनस्वतीम् ।
पुनर्विहृत्य कृत्वेष्टिं गृहाभिगमनादिकम् ॥
इष्टिपर्याप्तकालश्चेत्तस्मिन्नह्नि न लभ्यते ।
तदैव सर्वं कर्तव्यमिष्टिमात्रं परेऽहनि" इति ॥

 गृह्ये त्विष्टिस्थाने चरुः, ([१]"य आहिताग्नेः पुरोडाशास्तेऽनाहिताग्नेश्चरवः" इति शास्त्रात् । ) ऋत्वतिप्रवासे व्रातभृती कैश्चिदुक्ता । अत्रापि मनस्वत्याः समुच्चयः । ऋत्वतिप्रवासे व्रातभृती । संवत्सरातिप्रवासे पवित्रेष्टिः ।

तदुक्तं सूत्रान्तरे--

"यद्यृतुमतिप्रवसेद्व्रातभृत्या यजेत यदि संवत्सरमतिप्रवसेत्पवित्रेष्ट्या" इति ।

सूत्रान्तरे तु--"यदि संवत्सरमतिप्रवसेत्पवित्रेष्ट्या वैश्वानर्या वा यजेत" इति ।

 पक्षे वैश्वानर्यप्युक्ता । सर्वत्र मनोज्योतिरिति समुच्चीयत इति व्याख्यातारः ।



  1. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ग. च. पुस्तकयोरन्यथा पाठः स यथा--"येऽमुत्र चरवो यथादेवतं याज्यापुरोनुवाक्यवयोऽमुत्र वषट्कारः स इह स्वाहाकारपुरोडाशास्तरहित इति बौधायनगृह्यात् । अमुत्र श्रौतकर्मणि । इह गृह्ये" इति ।