चन्द्रिकायां पैठीनसिः--
"प्रस्खलीकृतधर्मस्य पीड्यमानस्य शक्तिभिः । |
मासद्वयस्योपर्यनाहिताग्नेराहिताग्निवत्प्रवासो नास्तीत्यर्थः ।
अत्र होमार्थं द्विजं प्रकल्प्य प्रवसेदित्युक्तं कूर्मपुराणे--
"निक्षिप्याग्निं स्वदारेषु परिकल्प्यर्त्विजं तथा । |
अत्र कार्यवानिति धनार्थी न तु तीर्थाद्यर्थी ।
तथा च मण्डनः--
"धनमर्जयितुं युक्तः प्रवासो ह्यग्निहोत्रिणः । |
तीर्थाद्यकरणे कारणमाह स एव--
"ब्रह्मा विष्णुः शिवः सूर्यो गौर्विप्राः पितृदेवताः । |
मध्ये तीर्थप्राप्तौ स्नानं कर्तव्यमेव, [१]
"धनाद्यर्थं व्रजन्मार्गे यदि तीर्थमवाप्नुयात् । |
प्रयाणे मध्ये नौकाधिरोहणप्राप्तौ मृत्पूर्णं शूर्पं निधाय तत्रारणी संनिधं वा संस्थाप्य तपतीं वाऽन्वार[३]भ्यैश्वपारं (?) गच्छेतामिति विशेषः ।
अथ प्रयोगः ।
प्रवासं करिष्यन्नाचम्य प्रवासं कर्तुमुपस्थानं करिष्य इति संकल्प्य, अभयंकराभयं मे कुरु स्वस्ति मेऽस्तु प्रवत्स्यामीति भस्मच्छन्नमेवाग्निमुपस्थाय 'मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मां तस्थुर्नो अरातयः । उदस्मा उत्तरां नयाग्ने घृतेनाऽऽहुत । रायस्पोषेण स सृज प्रजया च बहून्कृधि' [इति] तस्माद्देशाद्गच्छति । इत आरभ्य वाचं यच्छति यावच्छदींष्यदृश्यानि भवन्ति, अग्निर्वा भवत्यदृश्यस्तावत्पर्यन्तमनन्तरं वाचं विसृजते ।
मध्ये वाग्यमलोपे--इदं विष्णुरिति वैष्णव्यृग्ज( वर्ग्ज)पं समस्तव्याहृतिजपं च कृत्वा पुनर्वाचं यच्छति । गृहं प्रत्यागमने यदा छदींषि दृश्यानि भवन्ति, अग्निर्वा भवेद्दृश्यस्तावत्पर्यन्तं वाचं यच्छति ।
ततो गृहगतो हस्तपादप्रक्षालनं कृत्वाऽऽचम्य वाचं विसृज्य, "अभयंकरा