पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/८०९

पुटमेतत् सुपुष्टितम्
[साग्निकस्य प्रवासप्रयोगः]
८०१
संस्काररत्नमाला

भयं मे कार्षीः स्वस्ति मेऽस्तु प्रावात्स्यम्" इति भस्मच्छन्नमेवाग्निमुपतिष्ठते । एतच्च प्रवासस्थेनर्तावृतौ कर्तव्यम् । अत्र तस्माद्देशाद्गमनाभावेऽपि केवलमुपस्थानमात्रं कर्तव्यं व्रतकाले व्रताचरणं च । यदि तु यत्र कुत्रापि स्थितस्य प्रवास आपद्येत तदा तत्रैव तिष्ठन्स्वाग्न्यभिमुख इहैव सन्तत्र सन्तं त्वेत्यस्य विश्वे देवा अग्निस्त्रिष्टुप् । उपस्थाने विनियोगः । "ॐ इहैव सन्तत्र सन्तं त्वाऽग्ने प्रा० नरेणोपतिष्ठे" इत्युपस्थाय गच्छेत् । यदि राजादिपुरुषा बलान्नयन्ति, उपस्थानावसरं न प्रयच्छन्ति तदा तद्देशगत एवोपस्थानं कुर्यात् । प्रवासादागतं उपस्थानानन्तरं गृहा मा बिभीतेत्यादि कुर्यात्[] । तच्च वास्तुशमननिरूपणानन्तरं वक्ष्यते । उपस्थाय निर्गतस्य पुनस्तदहरेव प्रत्यागमने भवेदेवोपस्थानम् ।

 प्रवासादागतस्य गृहप्रवेशोत्तरं यद्याशौचज्ञानं तदाऽप्यागतोपस्थितिर्भवत्येव ।

 यथाऽऽह श्रौतग्रन्थे मण्डनः--

"रजोदोषे समुत्पन्ने सूतके मृतकेऽपि च ।
नित्यं नैमित्तिकं कुर्यात्काम्यं कर्म न किंचन" इति ॥

 अनेनैवागति[]कप्रवासगमनेऽपि न दोषः ।

 यत्तु--

"रजोदोषे समुत्पन्ने सूतके मृतकेऽपि वा ।
प्रवसन्नग्निमान्विप्रः पुनराधानमर्हति" ॥

 इति तदग्नि[]युक्तस्य गमननिषेधकम् । अन्यथाऽग्निमत्पदवैयर्थ्यापत्तेः । यानि तु सूतकादौ प्रवासनिषेधकानि तानि स्मार्तविषयाणीति प्रायश्चित्तकुतूहले । केचित्तु--आत्मसमारूढाग्निकस्य गमननिषेधकमित्याहुः । वस्तुतस्तु रजोदोषे समुत्पन्न इत्येतद्वचनेऽग्निमानित्यनन्तरमपिशब्दस्यान्वयः कार्यः । तथा च यथाऽग्नियुक्तस्याऽऽत्मसमारूढाग्निकस्य च गमननिषेधकं तथाऽग्निविरहितस्यापीति । एवं च शिष्टाचारोऽप्यनुगृहीतो भवति ।

 आशौच आगतोपस्थानं गृह्याग्नेर्न भवतीति केचित् । एतस्यापि श्रौतत्वाद्भवत्येवेत्यन्ये ।

 अरणिपक्षेऽरण्यारूढस्याप्यग्नेर्भस्मच्छन्नवह्निवदभयंकरमन्त्रेणोपस्थानं भवति । एवं समिदारूढस्याग्नेर्बुद्ध्योपस्थानमकृत्वैव निर्गमने प्रत्यागमनानन्तरं मनस्वतीहोमः सर्वप्रायश्चित्तं च । अमत्या गमनेऽनाज्ञातत्रयजपः सर्वप्रायश्चित्तं च ।



  1. च. त् । एत ।
  2. क. ग. तिकाप्र ।
  3. क. ग्निसंयु ।