कृत्वाऽग्रतो द्विजवरानथ पूर्णकुम्भं दध्यक्षताम्रदलपुष्पफलोपशोभम् । |
तथा--
"वास्तुपूजामकृत्वा यः प्रविशेन्नवमन्दिरम् । |
अथ प्रयोगः ।
"गृहा मा बिभीत मा वेपीढ्वमूर्जं बिभ्रत एमसि । |
इति धृतपूर्णकुम्भसुवासिनीपुरःसरः से[२]ष्टदेवतः सकुटुम्बो गृहसमीपं गच्छति
"ॐ क्षेमाय वः शान्त्यै प्रपद्ये शिव शग्म शंयोः शंयोः"। |
इति ज्योतिर्विदादिष्टे मु[३]हूर्ते गृहं प्रविशति । प्रवेशानन्तरमस्मिन्दिने कलहं नैव करोति ।
"ॐ गृहानह सुमनसः प्रपद्येऽवीरघ्नो वी[४]रवतः सुशेवान् । |
इति गृहमध्य उपविशति ।
"ॐ विश्वा उत त्वया वयं धारा उदन्या इव । अतिगाहेमहि द्विषः" [इति] भार्यां समीक्षते । भार्याद्वित्वे त्वयेत्यत्र युवाभ्यामित्यूहः । भार्याबहुत्वे युष्माभिरिति । नैतदहरागत इत्यत्राऽऽगत इति वचनं ग्रामान्तरादागतस्यानाहिताग्नेरप्येतत्प्रवेशनविधानमिति[५]ख्यापनार्थम् । तस्मान्नूतनगृहप्रवेशने ग्रामान्तरादागमने चेदं विधानम् । केचिन्नूतनगृहप्रवेश एवेच्छन्ति । तन्न । गृहानीक्षेताप्यनाहिताग्निरित्याश्वलायनसूत्रेऽनाहिताग्नेरपि ग्रामान्तरादागतस्य प्रवेश[६]नदर्श