पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/८६

पुटमेतत् सुपुष्टितम्
८२
[अन्वाधानम्]
भट्टगोपीनाथदीक्षितविरचिता--
(राष्ट्रभृत्स्विष्टकृदादीनां)
 

प्रसवानामधिपतिं रुद्रं पशूनामधिपतिम् । अत्रोदकस्पर्शः । त्वष्टारं रूपाणामधिपतिं विष्णुं पर्वतानामधिपतिं मरुतो गणानामधिपतींश्चैकैकयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वा प्राचीनावीती पितॄन्पितामहान्परानवरांस्ततांस्ततामहा[१]ने[२]कयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वा यज्ञोपवीत्यप उपस्पृशेत् । उपस्थानपक्षे पितॄन्पितामहानित्येतस्य वाक्यस्य नोल्लेखः ।

 राष्ट्रभृदुपहोमे--ऋतासाहमृतधामानमग्निं गन्धर्वमोषधीरप्सरस ऊर्जः संहितं विश्वसामानं सूर्यं गन्धर्वं मरीचीरप्सरस आ[३]यूः सुपुम्नं सूर्यरश्मिं चन्द्रमसं गन्धर्वं नक्षत्राण्यप्सरसो[४] बेकुरीः, भुज्युं सुपर्णं यज्ञं गन्धर्वं दक्षिणा अप्सरसः स्त[५]वाः प्रजापतिं विश्वकर्माणं मनो गन्धर्वमृक्सामान्यप्सरसो [६]वह्नीः, इषिरं विश्वव्यचसं वातं गन्धर्वमपोऽप्सरसो मुदाः, भुवनस्य पतिं परमेष्ठिनमधिपतिं मृत्युं गन्धर्वं विश्वमप्सरसो भूः सुक्षितिं सुभूतिं भद्रकृतं सुवर्वन्तं पर्जन्यं गन्धर्वं विद्युतोऽप्सरसो रुचः, दूरेहेतिममृडयं मृत्युं गन्धर्वं प्रजा अप्सरसो भीरूश्चारुं कृपणकाशिनं कामं गन्धर्वमाधीरप्सरसः शोचयन्तीः, भुवनस्य पतिं चैकैकयाऽऽज्याहुत्या यक्ष्य इत्युल्लिखेत् । अथवा जयदेवता एकैकयाऽऽज्याहुत्या यक्ष्ये, अभ्यातानदेवता एकैकयाऽऽज्याहुत्या यक्ष्ये, राष्ट्रभृद्देवता एकैकयाऽऽज्याहुत्या यक्ष्य इति समुदितरूपेणोल्लेखः ।

 स्विष्टकृद्धोमे--अग्निं स्विष्टकृतमेकया हुतशेषाहुत्या यक्ष्ये ।

 प्रायश्चित्तहोमे-- [७]अग्निं तिसृभिराज्याहुतिभिर्यक्ष्ये, अग्निं वरुणं चैकैकयाऽऽज्याहुत्या यक्ष्ये । अग्निं वरुणं चैकैकयाऽऽज्याहुत्या यक्ष्ये । इन्द्रं मघवन्तमिन्द्रं वृत्रहणं त्र्यम्बकं विष्णुमग्निं वायुं सूर्यं बृहस्पतिं वरुणमिन्द्रं विश्वान्देवांश्चैकैकयाऽऽज्याहुत्या यक्ष्ये ।

 संस्रावहोमे--वसून्रुद्रानादित्यान्संस्रावाज्येन यक्ष्ये । एता देवता यक्ष्य इत्युल्लिखेत् । सद्यःपक्षे सद्यो यक्ष्य इति । अनेकदिनसाध्ये कर्मणि त्वेता देवता अद्यतनदिनप्रभृतिषु दिवसेषु यक्ष्ये यष्टाह इति वदेत् । श्वःप्रभृतिषु दिवसेषु केवलं यष्टाह इत्येव । प्रधानं कर्म श्व एव चेत्तदा श्वो यष्टाह इत्येव वदेत् । यक्ष्ये यष्टाह इति प्रयोगो यजमाने


  1. ख. हानाज्येन य ।
  2. ग. नेकैक ।
  3. ग. आयुः ।
  4. ग. सो वेकु ।
  5. ड. स्तव्याः ।
  6. ग. वह्नि ।
  7. क. ख. ग. ग्निं ३ अग्निं वरुणं च २ इ ।